पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

300 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: नवे न बघन्ते, पाषाणमयी भूरित्यत्रेवमयटा बहुशर- संयोगमात्रस्य प्राकृतकुशबर्हिषि विधानसम्भवात् । बर्हिः कार्योद्देशेन शरविधाने मयटो वैयर्थ्यापत्ते, बर्हिः पदे लक्षणापत्तश्चेति प्राप्ते, उक्त- संयोगविधानस्य अदृष्टार्थत्वापत्तेः दृष्टं स्तरणरूपं बर्हि : कार्यमुद्दिश्यशरा विधीयन्ते बर्हिः पदस्योद्देशवाचकत्वेन तवापि मते तत्रापूर्वसाधन- लक्षणावश्यकत्वेन मन्मते उक्त कार्यद्वाराऽपूर्वसाधनलक्षणायास्तत्रादोष- त्वात् । मयश्रुतिस्तु स्थानापत्त्यतिदेशप्राप्तलवनादिसंस्कारविशिष्टस्य शरविकारद्रव्यस्यानुवादः । न च चोदकेन कुशतत्कार्ययोः पूर्वं प्राप्ततयानुवादः । न च चोदकेन कुशतत्कार्ययोः पूर्व प्राप्ततया पश्चात् स्वमात्रा कांक्षयाऽन्वयभाजां शराणां कुश विरोधेनैव अन्वयौ चित्यात् कुशाभावे प्रतिनिधित्वेन अन्वयोपपत्तेः न शराणां कुशबा- धकत्वमिति वाच्यम्; पदार्थविशिष्टोपकारविषयिण्याकांक्षया पदार्थ वीरीष्टोपकारस्यातिदेशपक्षे तस्य शरविधिपर्यालोचनेन पदार्था' विशोषितो- पकारविषयकत्वकल्पनात् । अन्यथा शरविध्यानर्थक्यात् विकृत्याकांक्ष- यैव शराणां ग्रहणमिति कुशप्राप्तेरेवाभावात् तार्किक प्राप्तया च प्राप्त_ बाघव्यवहारः । अथवा उपकारस्यैव प्रथममाकांक्षयाऽतिदेशः पदार्थस्य पश्चात् । अतः पदार्थाकांक्षायां शरविधिनैव तच्छान्तेः न कुशाति- देश इति दशमचतुर्थे ' चोदनालिङ्ग संयोगेन तद्विकारः प्रतीयते ' इत्यधि- करणे स्थितम् । चोदनाया लिङ्गं निर्वपतियजत्यादिधातुः । अष्टाक पालादिसङ्ख्या एक द्विदैवत्यत्वादि सम्बन्धघटितसादृश्येन तद्विकारः पौर्ण- मासघर्मकुशाद्यतिदेशे इति पूर्वपक्षसूत्रार्थः । अत्रापि क्लृप्तत्वनिरव- काशत्वादिना शरादिशास्त्रं कल्प्यसावकाशादिरूपकुशाद्यतिदेशापेक्षया प्रबलम् । न तु प्रत्यक्षविषयत्वेन, प्रत्यक्षाविषयस्यापि वैकृतमन्त्रलिङ्गादि- कल्प्यश्रुतेः प्राकृतमन्त्रादिप्रापकातिदेशबाधकत्वात् । तथाच प्रत्यक्षत्वेन अङ्गमात्रा. कुशा, 3 पदार्था, 4 चोदनालिङ्गं, 2 1 -