पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्यानुमानबाध्यत्त्वम् । , दुर्बलम् ! 'नीलं नभः' इति प्रत्यक्षमिव नभोनिरूपत्वानुमा- नापेक्षया अतो न सामान्यतो दृष्टमात्रेण सर्वसङ्करापत्तिः । नन्वेवं पशुत्वेन श्रृङ्गानुमानमपि स्यात् । लाघवात् पशुत्वमेव श्रृङ्गवत्वे तन्त्रम् | न तु तद्विशेषगोत्वादिकम् अननुगतत्वेन गौरवादित्येतत्तर्कसधचिनित्वेन प्रत्यक्षापेक्षया प्राबल्यात् । अनु- कूलतर्कसाचिव्यमेव हि अनुमाने बलम् । एवंच येनकेनचि- त्सामान्यधर्मेण सर्वत्र यत्किञ्चिदनुमेयम्, लाघवतर्कसाचिव्यस्य सत्त्वात् । तावतैव प्रत्यक्षबाधकत्वादिति व्यावहारिक्यपि व्यवस्था न स्यान् । न ह्यत्र प्रत्यक्षबाधादन्यो दोषोस्तीति चेन्न; अयोग्यशृङ्गादिसाधने प्रत्यक्षबाधस्यासम्भवेन तत्र व्याप्तिग्राहकतर्केष्वाभासत्वस्य त्वयापि वक्तव्यत्वेन व्यव अन्यथा शैत्यस्याप्ययोग्यस्य सम्भवेन तदनुमाने प्रत्यक्षबाधोद्भावनानु- पपत्तेः” इति, तत्तुच्छम्; व्यावहारिक परीक्षया तात्त्विकत्वासिद्धेरनुपद- मुक्तत्वात् जगत्सत्यत्वश्रुतेरन्यपरत्वादेः वक्ष्यमाणत्वात्तात्त्विकत्वाविषय- कत्वात् 'अस्तीत्येवोपलब्धव्यः, अजो नित्यः' इत्यादीनामखण्डार्थ- स्वेऽपि नित्यत्वायुपाधिपरामर्शपूर्वक खण्डप्रमितेरेव अनित्यत्वादि- भ्रमनिवर्तकत्वसम्भवात्, सामग्रीविशेषजन्यज्ञानस्यैव विजातीत्यवेन उक्तभ्रमनिवर्तकत्वं न तु नित्यत्त्वादिसंसर्गविषयकत्वादिना गौरवादित्य- स्मत्सिद्धान्तस्य त्वादृशैः दुर्बोधत्वात् । शृङ्गयोग्यतानियमस्तु शृङ्गिणामव युक्तः; पिशाचादिशरीरस्येव शृङ्गिशररिस्यापि अनुद्भूतरूपस्य सब्भ- वेन तदीयशृङ्गस्य तादृशत्वेन अयोग्यत्वसम्भवात् तदसम्भवेऽपि तादृशशृङ्गत्वेन सन्दिग्धस्यानुमानसम्भवाच्च । अयोग्यशैत्यस्य वड्यादा - बनुमाने प्रत्यक्षबाधो नोद्भाव्यत एव, किन्त्वप्रयोजकत्वमेव व्याप्ति- ग्राहकतकाभावरूपमिति । अत्र नभसि नैल्य प्रत्यक्षस्य नलिरूप त्वानुमा- मर्शकापूर्व. 2 निवर्तकत्वात्. , 3 नरूिप. , 1 303