पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः 305 प्रथम द्वितीये अर्थवादाधिकरणे 'वायुर्वै क्षेपिष्ठा' इत्यादेः धर्मप्रमा- नुत्पादकत्वं स्वार्थेचानुवादकत्वमित्येतावन्मात्रं 'स्तेनं मनोऽनृतवादिनी वाक्' इत्यादौ मनस्स्तेनत्वस्य वागनृतमात्रवादिनीत्वस्य च बाधितत्वात् मनः स्तेनसदृशं बागनृतप्रायवादिनीत्यर्थो वाच्यः । तथाच अनु- वादत्वापत्त्या विधिकल्पकत्वं वाच्यम् । वाङ्मनसयोरनृतादियोगाद- न्येनापि तत्सेव्यमिति तत्रापि नायमपूर्वविधिः; प्राप्तार्थत्वात्, 'नानृतं वदेत्' इत्यादिशास्त्र बाधापत्तेश्च । नापि अनृतान्येन कार्य न साधयेत् स्तेयान्योपायेन न द्रव्यमर्जयेदित्यादिपरिसङ्ख्या, त्रैदोप्यात्, सत्यमेव वदेत् प्रतिग्रहादिना द्रव्यमर्जयेदित्यादिशास्त्रबाघाच्च । अतएवा- नृतं वदेदे॒वेत्यादि॑र्न नियमबिधिरपि । नापि विकल्पः, कल्प्यत्वेनास्य दुर्बलत्वात् । तस्माच्छास्त्रविरोधेन विधिकल्पकत्वाभावादप्रामाण्यम् । एवं 'तस्मान् धूम एवामेर्दिवा दहशे नार्चिः, अर्चिरेवामेर्नक्तं दहशे न धूमः तस्माद्दिवाऽभिरादित्यं गतो रात्रावादित्यस्तम्' इत्यादेः दृष्ट- विरोधादप्रामाण्यमिति 'शास्त्रदृष्टविरोधाञ्च' इति सूत्रेणाशङ्कय अन्येषा- मध्यर्थवादानामन्यप्रकारेणाप्रामाण्यमाशङ्कय 'गुणवादस्तु' इति सूत्रेण बाधितार्थानां गौणार्थकत्वं प्रतिज्ञाय 'रूपात् प्रायात्' इत्यनेन 'दूर- भूयस्त्वात्' इत्यनेन च अन्येन च सूत्रेण उपपाद्य, सर्वेषामर्थवादानां विध्यपेक्षितस्तुतिनिन्दाबोधकत्वेन प्रामाण्यमिति समाहितम् । तत्र 'हिरण्यं हस्ते भवत्यथ गृह्णाति' इति विधेः शेषभूते 'स्तेनं मनोs- नृतवादिनी बाक्' इत्यत्र स्तेनशब्दः प्रच्छन्नकारित्वेन स्तेनसादृश्या- त्मकात् रूपात् स्तेनसदृशे गौण: ; अनुतशब्दोऽनृतवाक्यवाहुळ्यरूपात् प्रायाद्रौणः । वासयो: 2 स्तेनसहशत्वादिना हिरण्यादूनत्वप्रत्ययात् नहिनिन्दान्यायात् हिरण्यस्तुतिः । न तु निन्दया निषेषोलयनं, , 1 तथा यवहर्तव्यमिति 2 स्तेनसदृशत्वादेर्हिरण्यविधिस्तुत्यर्थत्वा नहिनिन्दा न्यायात्-पा. A.S.V. 20