पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः तत्सिद्विजातिसारू प्यप्रशंसाभूमलिङ्गसमवाया इति दर्थज्ञानार्थत्वाभावात् 'अम्यक् सात इन्द्रसृष्टिरस्मे' इत्यादौ अम्य - गादिपदार्थस्य 'सृण्येव जर्भरी तुर्फरी जुषाणा' इत्यादौ वाक्यार्थस्या- विज्ञयत्वात् । 'किं ते कृण्वन्ति कीकटेषु गावः' इत्यादौ कर्मानङ्ग की कटाद्यनित्यार्थबोधकत्वात् । न चार्थवादस्येव मन्त्राणां स्तुतिपरत्वेन विधिना पदैकयवाक्यतेति वाच्यम्; प्रदेशान्तरस्थमन्त्राणां तदसम्भ- वात् । तस्मान्मन्त्राणामप्रामाण्यमित्याशङ्कय 'अविशिष्टस्तु वाक्यार्थ: इत्यनेन वाक्यान्तरस्येव मन्त्राणां वाक्यार्थधीजनकत्वात् कर्मसम्ब- न्ध्यर्थ' प्रकाशनरूपदृष्टार्थसम्भवे नादृष्टार्थत्वं, किन्तु तदसम्भव इति अषीतवेदेन यत्सम्भवति तत्कुर्यादित्यस्य सिद्धान्तसिद्धप्रयोजनत्व- सम्भवान्नानर्थक्यं स्वविनियोजकविधौ पदार्थविषया प्रामाण्यसम्मव इति समाधाय सूत्रान्तरैरुक्तशङ्का निराकृताः । तत्र मन्त्रवाक्ये क्रमनिय- मोऽदृष्टार्थ एव, बुद्धेर्विस्मरणादिसम्भवात्प्रैषमन्त्र सार्थक्यं, ‘चत्वारि' इत्यादे: सूर्यप्रकाशकत्वाद्दिनयामरूप शृङ्गचतुष्टयं विद्यमानार्थ 3 एव, ओषध्यादिसम्बोध्यता चैतन्यारोपात्, अदितिरित्यादेः गौणार्थकत्वा- विरोध:, 4 अर्थज्ञानस्य अभ्यासावचनेऽपि प्रयोजनत्वमविरुद्धम् । अप्र सिद्धार्थस्तु निगमनिरुक्तादिना ज्ञेयः । कीकटादिपदानां कृपणादि- गौणार्थपरतया कर्मसमवेतार्थकत्वमिति संक्षेपः ।। 307 ' तत्सिद्धीति । 'यजमानः प्रस्तर: ' इत्यादावपि यजमानादिपदं प्रस्तरादिनामधेयं स्यात्, सोमादिपदवत् रूढत्वात् ; तदसम्भवेपि जघन्य - प्रस्तरपदे स्रुग्धार गादिरू मस्तरकार्यलझणया तदुद्दिश्याधारत्वेन यजमानो विधीयत इति प्राप्ते प्रत्यक्ष विध्यश्श्रवणात् 'प्रस्तरमुत्तरं बर्हिषस्सादयति ' इत्यादिविध्येकवाक्यत्वाच्च तद्विषेयप्रस्तरादिस्तुतिपरं यजमानेत्यादिक- मित्यौदुम्बराधिकरणसिद्धम् । यजमानादिपदं तु गौणस्वार्थपरमिति 1 सम्बद्धार्थ. 2 त्वादिनियमरूप. 8 विद्यमानाङ्ग 4 त्वादिविरोधः 20* .