पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः १ सर्वज्ञत्वकिञ्चिज्ञत्वादीनामैक्यान्वयानुपपत्तेश्च । तात्पर्यविषयी- भूताखण्डप्रतीतिनिर्वाहाय लक्षणाङ्गीकरणस्यैव उचितत्वात्, तात्पर्यविषयीभूतान्वयनिर्वाहाय लक्षणाश्रयणस्य सर्वत्र दर्शनात् । न चैवं सति अमुख्यार्थत्वं स्यादिति वाच्यम् ; तद्धि प्रतीय- रूप'किञ्चिज्ज्ञत्वांवशिष्टस्य च ऐक्यबोधे उक्तविशेषणयोरपि ऐक्यमवश्यं बोध्यमित्यन्वयानुपपत्त्या लक्षणया शुद्धयोरैक्यबोध इति भावः । न चोप- हितयोरेव ऐक्यं घटो द्रव्यमित्यादाविव बुध्यतामिति वाच्यम्; विशि- ष्टान्वयधीत्वेन मुख्यवृत्तिज्ञानकार्यता, उपहिता द्यन्वयघत्विन अमुख्य- वृत्तिज्ञानकार्यता । अतएव 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति ' इत्यादौ सर्वत्र विशिष्टान्वय एवौत्सर्गिकः । अतएव च घटो द्रव्यमित्यादा- बमुख्यवृत्त्यैव उपाहतान्वयः । मुख्यवृत्तिश्च विशिष्टशक्तिः, निरूढक्षलणा च । यदिच लाघवादुपहित एव शक्तिरिति नव्यमतमाश्रीयते तदा उपहितशक्तिर्निरूढलक्षणा च मुख्यवृत्तिः । एवंच विशिष्टे उपहिते वा शक्तस्यापि ब्रह्मादिपदस्य विशेष्यमात्रशक्तत्वेन ज्ञानात् विशेष्य मात्रधीः वक्ष्यमाणा युज्यत एव; विशेष्यमात्रयित्वेन ज्ञायमानशक्तेर- मुख्यवृत्तित्वात् । न च विशिष्टे उपहिते वा शक्तस्य पदस्य विशेष्य- मात्रे शक्तिज्ञानं तच्छाब्दबुद्धौ न कारणं, किन्तु तस्य तत्र लक्षणाज्ञानमेबेति वाच्यम्; उपहितशक्तेर्विशेष्येऽपि सत्त्वात् लक्षणाया- अन्याय्यत्वात् । अतएव बलवदनिष्टाजनकत्वविशिष्टेष्टसाधनत्वशक्त- स्यापि विधेः केवलेष्टसाधनत्वबोधकत्वम् । श्येनेनाभिचरन् यजेत ' इत्यादौ शक्तयैवेति तार्किकाः । मुख्यवृत्त्योपस्थितानामे कदेशान्वय- बोधानुपधायकत्वादेवामुख्यवृत्तित्वमुक्तमुख्यवृत्त्वन्यवृत्तेरुपपद्यते । एवंच उपहितान्वयधीः लक्षणया । अथवा उपहितशक्तिज्ञानस्यैव यदा विशेषणान्वये तात्पर्यज्ञानादिसहकारिसमवहितत्वं, तदा मुख्यवृत्तित्वं; 1 ग्रुपलक्षितत्वरूप. 2 तदुपहिता. 6 312