पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाध्यत्वविचारः 317 अझ' इत्यादौ चामुख्यार्थतायाः स्वीकृतत्वात् सर्वस्यापि वाक्यस्यावाच्ये ब्रह्मणि लक्षणाया एवेष्टत्वेन अमुख्यार्थत्व निषेधायोगाश्च अन्वयानुपपत्तेस्तात्पर्यानुपपत्तेर्वा लक्षणाबी- जस्य विध्यविधिसाधारणत्वाच्च । शाबरं तु वचनमर्थवाद- मुख्यत्वाय विधौ न लक्षणेत्येवंपरम् । तस्मात्र प्रत्यक्षं शब्दबाध्यमिति चेन; भावानवबोधात् । तात्पर्यविषयी- भूतार्थबोधकत्वं हि मुख्यार्थत्वम् ; न शक्यार्थमात्रबोधकत्वम् । अन्यार्थतात्पर्यकत्वाच्च अमुख्यार्थत्वम् । न लाक्षणिकत्वमा- त्रम् । तथाचाद्वैतागमस्य स्वतात्पर्यविषयीभूतार्थबोधकत्वनिर्वा- हाय लक्षणाश्रयणेपि मुख्यार्थत्वमुपपन्नमित्यवोचाम । एवं च ' सोमेन यजेत'. इत्यादिविशिष्टविधेर्विशेषणे तात्पर्याभावात् कृतिसाध्यत्वान्वयाय । वाक्यस्य अद्वैतवाक्यस्य । इष्टत्वेनेति । अद्वैतवाक्यं तु अनन्यशेषत्वान्मुख्यार्थमेव ' इत्युक्त वाचस्पतिवाक्ये - नेति शेषः । तात्पर्यविषयीभूतेत्यादि । स्वकीय मुख्य तात्पर्यविषय- बाक्यार्थप्रतिपादकत्वमित्यर्थः । अर्थवादानां प्रतिपाद्यः प्राशस्त्यधी- द्वारीभूतो वाक्यार्थोऽवान्तरतात्पर्यस्य विषयो न मुख्यतात्पर्यस्य प्राशस्त्यं मुख्यतात्पर्यविषयोऽपि न वाक्यार्थः । वाचस्पतिमते तु मुख्यपदं न देयं, प्राशस्त्यधीद्वारा वाक्या तात्पर्यानङ्गीकारात् । विशेषणे तात्पर्याभावादिति । विशेष्यविशेषणयोः तात्पर्यभेदे वाक्यभेदापत्तिः । विशिष्टविध्यन्यथानुपपत्त्या विशेषणविधिकल्पनाद्वारा विशेषणे तात्पर्य - मिति न सम्भवति विशेषणविधिना विशेषणे प्रमिते विशिष्टविधिः, विशिष्टविधौ च सति तदन्यथानुपपत्त्या विशेषणविधेः कल्पनमित्य- न्योन्याश्रयात् । अतो रेवत्यधिकरणकवारवन्तीय रूपविशेषण इव तात्पर्या' विषयेऽपि सोमादौ विशिष्टविधेः प्रामाण्यमिति भावः | 1 तात्पर्य . 2 विशिष्टविधेः प्रामाण्याभावः. 2 6