पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

332 अद्वैतसिद्धिं व्याख्यायां गुरुचन्द्रिकायां [ प्रथमः त्तरमपि देयम् । यदा तु प्रतिहत्रेपच्छेदो जघन्यः तदा पूर्वप्रयोग एव सर्वस्वं देयम्, न तु पूर्वापच्छेदनिमित्तकः पुनःप्रयोगः कार्यः । यद्यपि सर्वस्वदानेन सहादाक्षिण्यस्यैव विरोधः, तथाप्यदाक्षिण्यपुनःप्रयोगयोः समुच्चितयोरेव नैमित्तिकत्वेन एकाभावे इतरस्याप्यभावौचित्यात् 'केश- श्मश्रु वपते' इत्यादौ श्मश्रुभावात् पलया : केशवपनाभाववत् । यद्यपि च दक्षिणोत्कर्षस्य पुनःप्रयोगाङ्गतया विधानावश्यकत्वादेव पूर्वप्रयोगे निर्दक्षिणत्वस्यार्थिकत्वाददक्षिणं 2 तमिष्टेत्यनुवादः, तथाप्यनुवादस्य पाक्षिकत्वभयात् निर्दक्षिणत्वलोपे पुनःप्रयोगलोपः । वस्तुतस्तु स नानुवाद; ' तत्र तद्द्यात्' इत्यनेन पूर्वप्रयोगे दातव्यदक्षिणयोः पुनःप्रयोगाङ्गतया विधानेऽपि पूर्वप्रयोगाङ्गकत्रानत्यर्थं पूर्वप्रयोगेऽपि दक्षिणाया आवश्यकत्वेन अदाक्षिण्यस्याप्राप्तत्वातद्विधानस्यावश्यक- त्वात् । यद्यप्येवमुद्गातृमात्रापच्छेदेन पुनः प्रयोगे ज्योतिष्टोमत्वादेव द्वादशशतादिप्राप्तया ' तत्र तद्दद्यात्' इति तत्प्रापकतया न सार्थकम् ; तथापि तत्र पूर्वप्रयोगे एकविंशत्यादिक्षिणापक्षकरणेपि पुनःप्रयोगे द्वादशशतादिप्राप्तया तन्निवर्तकत्वेन प्रतिहत्रुद्द्वात्रोः क्रमेणापच्छेदे पुनःप्रयोगे द्वादशशतादिनिवर्तकत्वेन च तत् सार्थक- मेव । तथाच पश्चात् प्रतिहार्त्रपच्छेदे पुनःप्रयोगस्य न बाध: । 'केशश्मश्रु बपते' इत्यत्र तु द्वन्द्वसमासेन उपादेयगतत्वेन साहित्य- स्योक्तत्वात् तद्विशिष्टमङ्गं प्रकृते तु अरुणैकहायन्योरिव प्रकृतदेवता- पनयदेवतान्तरसंयोगयोरिव प्रत्येकमेव क्रियान्वयानैकलोपे परलोपः । न ह्यारुण्यस्य उपांशुयाजे देवतान्तरसंयोगस्य वा अभावे एकहायन्या सोमक्रयस्य नानुष्ठानम् । अपनयस्य लोपेन उपांशुयाजस्य वा अनुष्ठा- नम् ।' 'तण्डुलान् विभजेत्' इत्यपनयवाक्ये हि ' दर्शहविर्मात्रस्य पूर्वदेवतापनयो विधीयत इत्युपांशुयाजहविषोऽपि तदपनयात् ' अग्नये 6

तु 4 1 श्मश्रूभावापत्त्या. 2 कत्वाद्दक्षिणान्त. 3 उपांशुयाजसवनानुष्ठानम्. 4 दार्शिक.