पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपच्छेदन्यायवैषम्यभङ्गः, निमित्तकादक्षिणयागेन परेण प्रतिहर्त्रपच्छेदनिमित्तकसर्वस्वदक्षि- गयागस्य पूर्वसिद्धनिमित्तकस्य बाध इति स्थितम्, तथेहापि उदीच्यागमेन पूर्वस्य प्रत्यक्षस्य बाधः । ननु प्रतिहत्रेपच्छेद- निमित्त कसर्वस्वदक्षिणयागस्य प्रतिहत्रेपच्छेदे युगपदपच्छेदे क्रमेणापच्छेदेऽपि प्रतिहर्त्रपच्छेदस्य पश्चात्वे च सावकाश इति युक्तः उद्वात्रपच्छेदनिमित्तकादक्षिणयागेन बाधः । अन्यथा 'यदि प्रतिहत्र अपच्छिद्येत सर्ववेदसं दद्यात्' इति शास्त्रम - प्रमणं स्यात् । अतएव 'विप्रतिषेधाद्विकल्प: स्यात्' इत्यधि- करणे द्वयोः युगपदपच्छेदे विकल्प उक्तः किंच 'यद्युगाता दात्रे' इत्यादिना उपांशुयाजान्यहविषामेव देवतान्तरसंयोगविधानादुपांशु' याजस्याननुष्ठानमुक्तं षष्ठपञ्चमे। दर्शेप्युपांशुयाजमङ्गीकृत्य तस्मात्प्रतिहर्तुः पश्चादपच्छदे पूर्वप्रयोगे सर्वस्वं दत्वा पुनःप्रयोगेऽपि सर्वस्वं देयम् | यदा तु आद्यप्रयोगे उद्गातुरपच्छेदः, तन्निमित्तकपुनःप्रयोगे च प्रतिहर्तु- रपच्छेदः, तदा तत्र सर्वस्वं देयम्; नैमित्तिकत्वेन नित्यदक्षिणा - बाधकत्वात् । न च पुनःप्रयोगस्य प्रायश्चित्ततया पूर्वप्रयोगाङ्गत्वात् तत्र तद्द्या' दित्यनेन पूर्वप्रयोगाङ्गदक्षिणाया एव उत्तरप्रयोग- वृत्तित्वमात्रविधानात् अङ्गगुणविरोधन्यायेन अङ्गभूतपुनःप्रयोगाङ्ग सर्वस्व- दक्षिणाबाधेन प्रधानभूतपूर्वप्रयोगाङ्गद्वादशशतादि देयमिति वाच्यम्; अपूर्वविधित्वात् दृष्टार्थत्वादिप्रसङ्गेन पूर्वप्रयोगाङ्गदक्षिणाया उत्तर- प्रयोगवृत्तित्वविधानानुपपत्तेः पुनःप्रयोगाङ्गदक्षिणाया एव पुनःप्रयोग वृत्तित्वात् । परेणेति । परसिद्धनिमित्त केनेत्यर्थः । अन्यथेति । निरवकाशत्वेपि बाध्यत्व इत्यर्थः । इतरस्मिन्नित्यधिकरण इति । इत्युक्तमित्यत्रान्वेति । निमित्तकपूर्वप्रयोगस्थेति पाठः । निमित्त- कान्तं सर्वस्वविशेषणम् । प्रयोगस्येति पाठे तन्निमित्त कसर्वस्वयोगात् 6 3 1 संयोगे विधिना उपांशु. 2 कत्वेन दक्षिणा. 3 प्रयोगस्येति. परिच्छेदः] 333