पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

334 अद्वैतसिद्धिव्याख्यायां गुरुचान्द्रकायां [प्रथमः जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्यात् अथेतरस्मिन्' इत्यधि- करणे उद्गात्रपच्छेदस्य प्रतिहर्त्रपच्छेदात्परत्वे उद्गात्रपच्छेद- निमित्तं पूर्व प्रयोगं दक्षिणाहीनं सम्पाद्य कर्तव्यज्योतिष्टोमस्य द्वितीयप्रयोगे 'तद्यात् यत्पूर्वस्मिन् दास्यन् स्यात्' इति श्रुत्युक्ता या दक्षिणा सा पूर्वभाविप्रतिहत्रेपच्छेदनिमित्तकपूर्व- प्रयोगस्य सर्वस्वदित्साया अबाधेन सर्वस्वरूपैव । न तु या ज्योतिष्टोमे नित्या द्वादशशतरूपा । तस्मान्न प्रतिहत्रपच्छेदस्य सर्वथा बाधः, किन्तु प्रयोगान्तरे निक्षेप इत्युक्तम् । उक्तं हि टुप्टीकायां 'तस्य प्रयोगान्तरे निक्षेपः' इति । अपिच क्रमि- कनिमित्तद्वयेन क्रमेणादक्षिणसर्वस्वदक्षिणयोः प्रयोगयोः सम्भवेन विरोध एव नास्ति । यथा बदरीफले ऋमिकनिमित्तवतोः श्यामरक्तरूपयोः । उक्तं ह्यपच्छेदाधिकरणे 'नैमित्तिकशास्त्रस्य ह्ययमर्थः निमित्तोपजननात् प्रागन्यथा कर्तव्योऽपि ऋतुर्निमित्तेऽ सति एवं कर्तव्यः' इति । तस्मादापच्छेदन्यायः सावकाश- विषयः । अद्वैतागमेन प्रत्यक्षबाधे तु न प्रत्यक्षप्रामाण्यस्या- प्रयोगस्य तन्निमित्तकतोक्तिः । निक्षेप इति । यद्यप्युक्तरीत्या प्रयोगान्तरे निक्षिप्ता तदङ्गमेवेति पूर्वप्रयोगाङ्गत्वं तस्यास्सर्वथा बाधितमेव, तथापि भ्रान्त्यैव परेणेदमुक्तम् । एवं कर्तव्य इतीति । यद्यपि नानेन वाक्येनाविरोध: 1 प्रतिपाद्यते, किन्तु बाध्यबाधक- भाव एव । पूर्व परस्य बाध्यं न तु परं पूर्वस्येति सयुक्तिकमुपपाद्य तस्मात्पूर्वदौर्बल्यमिति सौत्रपदेन तत्र सूत्रकारस्वारस्य मुक्ता नैमि- त्तिकेन नित्यबाधं दृष्टान्तयितुं शास्त्रदीपिकादौ प्रकृतवाक्यस्य उक्तत्वात् । अतएव नित्यमित्याद्यग्रिमग्रन्थो दृष्टान्तबोधकः । तथाच निमित्तं यत्र न जातं 1 तत्रान्यथा कर्तव्योपि यत्र यज्जातं तत्र अन्यथा 1 वाक्येन विरोधः. 2 कारस्याशय. 3 सदृष्टान्त. 4 यत्र जातं.