पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्यानुमितेः शैल्यानुमितिसाम्यमङ्गः 337 पूर्वत्वमेव | अपवादापवादे उत्सर्गस्यैव स्थिरत्वादतो निर्दोषत्व- मपि नन्यथासिद्धम् । तात्पर्यविषय एव प्रामाण्यस्याभ्युपे- यत्वादित्यबोधमात्रावज़ाम्भतमपच्छेदन्यायवैषम्याभिधाममिति ॥ इत्यपच्छे दम्यायवैषम्यभङ्ग: मिथ्यात्वा नुमितेः शैत्यानुमितिसाम्यभङ्गः ननु यदि प्रत्यक्षबाधितमप्यनुमानं साधयेत् तदा वह्नयनौ- ष्ण्यमपि साधयेत् । तथांच कालात्ययापदिष्टकथा सर्वत्रोच्छि- द्येत । न चौष्ण्य प्रतियोगिकाभावे साध्ये पक्ष एवं प्रतियोगिप्रसिद्धि- रिति तत्र बाधस्सावकाशः । प्रकृते तु सत्वं व्यावहारिकं प्रत्यक्षसिद्धम्, तदविरुद्धं च मिथ्यात्वम् तस्य पारमार्थिक- सत्त्वविरोधित्वादतो न व्यावहारिकसत्त्वग्राहकणाध्यक्षेण बाध्यत प्रवर्तते । तत्रापि न नियमः, प्राकरणिकहोमादिबोधकत्वेन पदादि- शास्त्रस्य अनारभ्याधीताहवनीयादि शास्त्रात्पूर्वप्रवृत्तत्वेप्यतादृशयोरुत्सर्गा- पवादशास्त्रयोः प्रवृत्तिकमे नियामकाभावेन युगपत्प्रवृत्ते । तस्मात् सामान्यशास्त्रस्य सावकाशत्वादिक मेवानवकाशत्वादिमदपवादशास्त्रबा- ध्यत्वे बीजं, न तु पूर्वप्रवृत्तत्वमिति प्राकरणिकहोमादिबोधकत्वेन पदादिशास्त्रस्य यथा पूर्वप्रवृत्तिः, तथा मृडेत्यादेः कित्त्वनिषेधनिषेध- रूपत्वात् कित्त्वनिषेधप्राप्तिसापेक्षतया 'नक्ता' इत्यादिप्रवृत्त्युत्तरमेव नवृत्तिरिति स्फुट एव ते परवाक्यार्थाबोधः || तर्केस्सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । अपच्छेदन्यायसाम्यं दुरन्तध्वान्तनाशनम् ॥ इत्यपच्छेदन्यायवैषम्यभङ्गः, A.S.V. , 22 .