पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वानुमितेः शैत्यानुमितिसाम्यभङ्गः 341 , सप्रयोजनत्वाच तत्रैव श्रुतेस्तात्पर्यसम्भवेन बोधकत्वात् । यदि हि निषेषधीः प्रसक्तिसापेक्षा स्यात् तदा नान्तरिक्ष इत्यादि न सोम इत्यादि वा नित्यानुवादोऽपि न स्यादिति द्वारीभूतवाक्यार्थाबोधे स्तुति - निन्दाबोधोपि न स्यात् । तदबोषेऽपि तद्वोघे 'गुणवादस्तु' इति सूत्रेण गौणार्थतापि बाधितार्थवादानां नोच्येत । तस्मान्निषेधतात्पर्य - मेव निषेधप्रयोजनवत्त्वाय प्रसक्तिसापेक्षम् । प्रयोजनवत्त्वं च प्रकृते तां विनापीति नानुपपत्तिः । न च 'तमेवं विद्वानमृतः' इत्यादिना सगुणस्यैव मोक्षहेतुज्ञानविषयत्वलाभान्निष्प्रपञ्चब्रह्मज्ञानं व्यर्थमिति वाच्यम् ; 'प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते सोयमात्मा स विज्ञेयः' इत्यादिभिः शुद्धस्यैव तल्लाभात् तदनुसारेणैवंपदस्य शुद्ध- बोधकत्वात् । सगुणबोधकत्वेपि 'तमेव विदित्वाऽतिमृत्युमेति' इत्या- धनुसारेण तज्ज्ञानस्य स्वसाध्यचित्तैकाग्रयाधीनशुद्धज्ञानद्वारा मोक्ष- हेतुत्वपरमुक्तवाक्यमित्युपपत्तेः । वक्ष्यते चैतदाचार्येरेव विस्तरेण द्वितीय - परिच्छेदे । एतेन – न पशावित्यादौ प्रतिषेधात् प्रसक्तेरावश्यकतया विकल्पस्थापनात् प्रसक्किं विना ना भावधीरित्यपास्तम् । विकल्पो हि तत्र न निषेषबुद्धेः, प्रसक्तिसापेक्षत्वात् ; किन्तु निषेधतात्पर्यस्य | अथ तस्य तत्सापेक्षत्वं, ततो विकल्पो वा कथमिति चेत्, प्रसक्तर्हि यदि रागाधना, तदापि रागविषयान्नित्यनिवृत्तिरूपप्रयो- जनवत्त्वेन निषेधे तात्पर्यम्; यदि शास्त्राधीना, तदापि तया तद्विषये जायमानप्रवृत्तेः पाक्षिकत्वसिद्धिरूपप्रयोजनबत्त्वेन निषेधे तात्पर्यम् । तादृशप्रयोजनवत्त्वनिश्चयेन निश्चीयमानं तात्पर्य तत्सापेक्षमुक्तपाक्षि- कत्वसिद्धया च विकल्पस्यापि सिद्धिः । यद्यपि न तौ पशावि- त्यादिनिषेधशास्त्रं प्रत्यक्षं विशेषविषयकत्वादिमञ्च तथाप्यतिवेशादि- रूपस्य सामान्यविषयकत्वादिमतः प्रसञ्जकशास्त्रम्य न सर्वदा बाधकं, उक्तरीत्या तदुपजीव्यनिर्णीततात्पर्यकत्वात् । तस्यात्यन्तिकाबाघे च