पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् 345 इति । दृष्टान्तीकृतश्रुतौ तु हिमनिवृत्तिकारणताया वह्नौ सर्व- साधारणप्रत्यक्षार्थापत्तिभ्यां अवसेयत्वाद्वैषम्यम् । तस्मान्मिथ्या- त्वानुमानस्य न वह्निशैत्यानुमितिसाम्यम् ।। इति मिथ्यात्वानुमानस्य शैत्यानुमितिसाम्यभङ्गः

प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् किञ्च परीक्षितत्वेनैव प्रायल्यं, नोपजीव्यत्वादिना । अनु- मानशब्दबाध्यत्वस्य प्रत्यक्षेऽपि दर्शनात् । तथाहि ——इदं रजत- मिति प्रत्यक्षस्य अनुमानाप्तवचनाभ्यां नभोनैल्यप्रत्यक्षस्य नीरूपत्वग्राहकानुमानन 'गौरोऽहम्' इत्यस्य 'अहमिहैवास्मि सदने जानानः' इत्यस्य चन्द्रप्रादेशिकत्वप्रत्यक्षस्य च अनु- मानागमाभ्यां ' पीतश्शङ्खास्तक्तो गुडः' इत्यादेवानुमानाप्तवच- नाभ्यां बाधो दृश्यते । ननु साक्षात्कारिभ्रमे साक्षात्कारिविशेष- वादिका । श्रुतितात्पर्य तु अन्यत एव निर्णीतमिति भावः । नन्वेवं परं प्रति नानुमानमुपन्यसनीयं, परस्याविश्वासादिति चेन्न; अविश्वस्य ब्रुवताऽपि परेण दूषणानुपन्यासे विजयस्य जल्पकथास्थलीयानुमानफल- स्याव्याहतत्वात् वादकथायामपि शङ्काबीजाभावात् निर्दोषेऽनुमाने नाविश्वास: । शङ्काबीजसत्त्वे तु नोपन्यस्यत एवानुमानम्, उपन्यस्यापि तच्छक्कापसारणं श्रुत्या वा क्रियत इत्यदोषात् || तर्केस्सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । मिथ्यात्वशैत्यानुमयोरसाम्यं ध्वान्तभञ्जनम् || इति मिथ्यात्वानुमते शैत्यानुमितिसाम्यभङ्गः. , 1 अविश्वसताऽपि. 2 कोsविश्वासः ?