पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः ग्राहकसाक्षिप्रत्यक्षमेव तद्धाधकं वाच्यम्; न च रूपग्रहणास मर्थस्य साक्षिणः कथं नरूिपत्वग्राहकत्वमिति वाच्यम्; पिशाचाग्राह- कस्यपि चक्षुषः तदभावग्राहकत्ववदुपपत्तेः परेणापि साक्षिणोपि रूपवत्तमोग्राहकत्वाभ्युपगमाच्च । अचाक्षुषेऽपि नभसि वायाविष चक्षुषैव रूपाभावग्रहणसम्भवेन चाक्षुषप्रत्यक्षबाधात् इति चेन्न; ‘नलिं नमः' इति प्रत्यक्ष जाग्रति रूपाभावग्रहणस्य चक्षुषा साक्षिणा चासम्भवात् । तथाच बलवती युक्तिरेव तद्बाधिका । न च लिङ्गाभावः, चक्षुरन्वयव्यतिरेकानुविधायिरूपाविशेषितप्रती- तिविषयत्वात्, (न) रूपवदिति लिङ्गसम्भवाम् । न चाप्रयोजक- त्वम् ; नभो यदि सरूपं स्यात् तदा चक्षुरन्वयव्यतिरेकानुवि- धायिप्रतीतौ रूपासम्बन्धितया विषयो न स्यादिति तर्कोपपत्तेः । न चेष्टापत्तिः, सविधे रूपासम्बन्धितया नभसस्सिद्धेः सर्वजनसम्मत- त्वात् | नभसः साक्षिवेद्यतायामपि चक्षुरन्वयव्यतिरेकानुविधान- मवर्जनीयमेव । अन्यथा अन्धस्यापि तद्ब्रहणं स्यात् । न च तदभावेति । तद्भेदेत्यर्थः । रूपवत्तम इति । 'नित्यानुभवप्राह्यं तमः ' इति तत्त्वदपिनोक्तेः । तमस इव तदीयरूपादेरपि प्रातीतिकत्वात् साक्षि - वेद्यत्वेऽपि व्यावहारिकस्य रूपादेरतत्त्वात्तदभावस्य नभसि साक्षिवेद्यत्वं परोक्तमयुक्तम् । न च तमसः प्रातीतिकत्वे गुहामध्यस्थमदृश्यमानं तमो न स्यादिति वाच्यम् ; न हि तादृशं तमस्स्वीक्रियते ; अपितु जले वृक्षा- घोऽमत्ववत् केनचिद्दश्यमानमेव अधिष्ठानज्ञानादिरूपनिमित्तनाशादेव तन्नाशसम्भवात् । आलोकं विनापि तन्नाशः, निमित्तनाशं विनाप्या- लोकेन तन्नाश इत्यभिप्रायेण विवरणे आलोकनाश्यं तदुक्तमिति ध्येयम् । अवर्जनीयमिति। चक्षुस्संयोगावच्छिन्नालोकावच्छिन्नं नभः साक्षिवे- द्यम् । यदितु महान्धकारेऽपि नभस्साक्षात्करोमीति व्यवहारः प्रामाणिकः, 1 तर्हि. , , 348