पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् 349 पञ्चीकरणाद्रूपवदारब्धत्वेन नभसो नीरूपत्वं बाधितमिति वाच्यम्; त्रिवृत्करणपक्षे अस्य दूषणस्य अनवकाशात् । पञ्चीकरणपक्षेऽपि अपञ्चीकरणदशायां यस्मिन् भूते यो गुणः स पञ्चीकरणाद्वयवहारयोग्यः भवतीत्येतावन्मात्राभ्युपगमात् ना काशे रूपारम्भप्रसङ्गः । न च 'नायं सर्पः' इत्युक्तेऽपि किमेव वदसि परमपि पुनः परामृश्य पश्यसीति प्रतिवचनदर्शनात् न शब्दमात्रं रज्जुसर्पादिभ्रमनिवर्तकम्, किन्तु प्रत्यक्षमेवेति षाच्यम्; प्रतिवचनस्थले भ्रमप्रमादादिशङ्काक्रान्तत्वेन 'नायं सर्पः' इत्यादेर्दुर्बलतया न भ्रमनिवर्तकत्वम् । यत्र तु तादृक्- शङ्कानाक्रान्तत्वं, तत्र भ्रमनिवर्तकतैव । अतएव ताडक्शङ्का- नाक्रान्तपित्रादिवचास नेहक्प्रतिवचनम् ; किन्तु सिद्धवत्प्रवृ त्यादिकमेव । ज्वालैक्यप्रत्यक्षमप्येवमेव युक्तिवाध्यम् । न च निर्वापितारोपितस्थले स्पष्टतरभेदप्रत्यक्षबाधितमित्यन्यत्रापि दी- घेर्य न ह्रस्वेति भेदप्रत्यक्षमेव तद्बाधकमिति वाच्यम्; निर्वापि तारोपितातिरिक्तस्थले तावदयं विचारः । तत्र दीर्घेयं न इस्वेति भेदप्रत्यक्षं वक्तुमशक्यम् । यैव ह्रस्वा सैवेदानीं दीर्घेति ह्रस्वत्व- तदा चक्षुस्संयोगावच्छिन्नं नम एव तथा अन्यथा अन्धस्यापि तत तथा स्यात् । एवंच निमीलितनेत्रस्य तथा व्यवहारस्वीकारेऽपि न क्षतिः, चक्षुरन्तरे तत्संयोगसम्भवात् । न च नभसि चक्षुस्संयोगे मानाभाव इति वाच्यम् ; अन्धस्य नमस्साक्षात्करोमीति व्यवहारातादृशव्यवहा प्रति चक्षुस्संयुक्तनभस्त्वेन ' हेतुत्वावश्यकत्वात्, चक्षुस्संयुक्ते नभस्या वरणस्वीकाराद्वा तदावश्यकत्वात् । एतेन – 'रूपवत्यपि नभसि चक्षु स्संयोगास्वीकारेण तत्र रूपा चाक्षुषोपपत्तेः नभो यदीत्यायुक्ततर्कामव 1 मनस्त्वेन.