परिच्छेदः] 17 कत्वं न दोषः । पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभावमात्रेण । पक्षतावच्छेदकविचारः । अत थ्याभूतसाक्षात्क्रियमाणेदंतादात्म्यादिसंसृष्टतया मिथ्याभूतत्वसाक्षात्क्रि- यमाणत्वयोः वक्तुं शक्यतया विनिगमकाभावात् । मिथ्यात्वसा- क्षात्क्रियमाणत्वे साक्षात्सम्बन्धेन प्रतीयेते इति तु तादात्म्येऽपि समा नम् । अथ रजताद्यनुत्पत्तौ मिथ्यातादात्म्योत्पत्त्या न भ्रमाकारनिर्वाहः । रजतादिप्रकारताया व्यावहारिकरजता द्यवच्छिन्नचिन्निष्ठायाः शुक्तया- द्यवच्छिन्नचिन्निष्ठाक्ततादात्म्यविषयता वच्छिन्नत्वासम्भवात् एव परोक्षश्रमस्थले स्फटिकादौ लौहित्यादिभ्रमस्थले चान्यथाख्याति- वादो न विचारसहः । तत्तच्चत्यावच्छिन्नचित्सम्बद्धरूपाणां विषयतानां मिथोऽवाच्छन्नत्वासम्भवादिति चेन्न; उत्पद्यमानमिथ्यातादात्म्य- स्याघटमानघटकत्वात् तदुपादानाज्ञानस्य शुक्तिव्यावहारिकरजतायुभ- यावच्छिन्नचिदाश्रितत्वतदुभयभेदावच्छिन्नचिद्विषयकत्वाभ्यां व्यावहारि- करजतादिव्यापकत्वाच्च । अतएव प्रातीतिकरजतादौ व्यावहारिक- `रजतादेस्तादात्म्यारोपः प्राचीनसम्मतत्वेन द्वितीये मिथ्यात्वलक्षणे मूले वक्ष्यते । एवंच “ अध्यस्तमेव हि परिस्फुरति भ्रमेषु नान्यत्कथं- चन परिस्फुरति भ्रमेषु " इति संक्षेपशारीरकोक्तिः विजयते । विशे- षणसंसर्गयोरिव संसर्गप्रतियोगित्वोपहितस्य विशेष्यस्यापि भ्रमका- लोत्पत्त्या बाधकालावच्छेदेन बाध्यत्वात् । न च भ्रमपूर्वमेवेदमादेः सिद्धत्वेनोत्पत्त्यसम्भव इति वाच्यम् ; उक्तोपहितस्येदमादेः पूर्वसि- छेदमादितो भिन्नत्वात् । या यदुत्पत्तिसामग्री सा तदुपाहतोत्पत्ति- सामग्रीति व्याप्त्या पूर्वसिद्धेदमादिगतदोषादिसामग्रचा रजतादितत्ता- दात्म्यतत्प्रतियोगिकत्वोपाहतानामुत्पत्तिसम्भवात् । अथोक्तोपहितस्य पूर्वसिद्धेदमादिना तादात्म्यस्य वाच्यतया तस्याप्युक्तोपहितवादा- त्म्यं मिथ्यैवाभात् न पूर्वसिद्धेदमादौ कदापि तदस्तीति बाधा- -
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति