पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

350 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः दीर्घत्वाभ्यां उपस्थितयोरभेदस्य साक्षात्क्रियमाणत्वात् । तथा च ज्वालाप्रत्यभिज्ञा युक्तिवाध्यैव । सर्वदा पित्तदूषितनेत्रस्य 'पीतरशङ्खः' इति प्रत्यक्ष चन्द्रप्रादेशिकत्वप्रत्यक्षे च परोक्षाति- रिक्तस्य बाधकस्य शङ्कितुमप्यशक्यत्वात् युक्तयादिबाध्यतैव वक्तव्या । ननु सर्वत्रैवात्र प्रकारान्तरेण | सत्कल्पे प्रत्यक्षे माना- न्तरप्रवृत्तिः । तथाहि - द्विविधं ज्ञानं द्विकोटिकमेककोटिकं च । अन्त्यमपि. द्विविधम्, अप्रामाण्यशङ्काकलङ्कितं तदकलङ्कितं च । तत्राद्यौ सर्वप्रमाणावकाशदौ, अर्थापरिच्छेदकत्वादप्रामाण्यशङ्का- कलङ्कितत्वाच्च । अप्रामाण्यधीकलङ्कितत्वं च द्वेधा भवति, दुष्ट- करणकत्वनिश्चयादर्थाभावनिश्चयाच्च । तथाच शैलाग्रस्थित विट- पिनां प्रादेशिकत्वप्रतीतिर्दूरदोषनिबन्धना दृष्टेति दूरतरस्थस्य चन्द्रमसः प्रादेशिकत्वप्रत्ययो दोषनिबन्धन एवेति निर्णीयते । एवमाकाशे समीपे नीरूपत्वनिश्चयाद्दूरे रूपवत्त्वधीदूरदोषजन्येति प्रागेव निश्चीयते । 'पीतश्शङ्खः' इत्यादिप्रत्यक्षं तु प्राथमिक- परीक्षितप्रत्यक्षेण 'शङ्खो न पीतः ' इत्यर्थाभावनिश्चयात् अप्रामाण्यज्ञाना स्कन्दितमेवोत्पद्यते । एवं सवितृसुषिरादि- प्रत्यक्षमपि । तथाच चन्द्रादिप्रादेशिकत्व प्रत्यक्षं दूरादिदोषनिश्च- यात् 'पीतश्शशः' इत्यादिप्रत्यक्षं प्राथमिकार्थाभावनिश्चयादेव काशः इति परास्तम् । वस्तुतस्तु नभो । यदि नीलं स्यात्तदा नील- त्वेन दूरस्थै: गृह्यमाणावच्छेदेन निकटस्थैरपि 'नीलत्वेन गृह्यतेत्यत्र तर्के नभो यदीत्यादेस्तात्पर्यम् । तथाच नीलत्वेन निकटस्थचाक्षु- षाविषयत्वेन नभसि नैल्याभावानुमानं निर्विघ्नम् । एवं महान्धकारे शुक्कत्वेन चाक्षुषाविषयत्वादिना शौक्लयाद्यभावोऽनुमेयः । न च शुक्लेऽपि नभसि शौक्लयं न गृह्यते, किंन्तु नैल्यं दोषादिति वाच्यम्; 1 तमो. ,