पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकम् 355 , , गमयोश्च तुल्यवदेवं बाधकतेति। न हि चन्द्रप्रादेशिकत्व प्रत्यक्षेऽपि प्रागेव दुष्टकरणत्वनिश्चयः । नैकट्यस्यापि क्वचिद्दोषत्वेन सर्वत्र परिमाणज्ञानाविश्वासप्रसङ्गात् । किन्तु आगमादिना बाधानन्तर- मेव । तद्वत् प्रकृतेऽपि मिथ्यात्वसिद्धयनन्तरमेव अविद्यारूपदोष- निश्चयः । तथाच सर्वात्मना साम्यम् । यत्तु दृष्टस्य वस्तुनो बलवदृष्टं विना अन्यद्वाधकं नास्तीत्युक्तम् तद्दुर्बलशब्द- लिङ्गादिविषयम् । यदप्युक्तं विवरणे – 'यत्राविचारपुरस्सरमेव प्रत्यक्षावभासमप्यनुमानादिना बाधितमुच्छिन्नव्यवहारं भवति, तत्र तथा भवतु । यत्र पुनः विचारपदवीमुपारूढयो: ज्ञान- योर्बलाबलचिन्तया बाधनिश्चयः, तत्र नानुमानादिना प्रत्यक्षस्य मिथ्यात्वसिद्धिः' – इति तदपि गृहीतप्रामाण्यकशब्द तदुप- मुत्पद्यताम्' इति तन्न; अस्मन्मते हि नारम्भवादप्रक्रियया रूपादिकं स्वाश्रयसमवायिरूपादिजन्यम्; जलादेः पञ्चीकृतस्य गन्धाद्यापत्तेः, घटरूपायुत्पत्त्यव्यवहित ' पूर्वक्षणे घटाद्यात्मना परिणतस्य कपालादे- रेवाभावेन तदीयरूपादे दूरत एवाभावात् घटरूपाद्युपधायकत्वा- सम्भवाच्च । किन्तु शक्तिविशेषविशिष्टस्यैव कारणत्वं तत्र स्वीक्रियते । सा च शक्तिः तेजस्संयोगविशेषे पाकजरूपादिजनक इवाकाशवायु- व्यावृत्तपाञ्चभौतिक संयोगेऽपि स्वीक्रियते । तथाच येषु येषु भूतेषु यादृश- यादृशरूपादि अनुभवसिद्धं, तादृशतादृशकारणतावच्छेदकशक्तयाश्रय- संयोगानां तेषु तेष्वेव स्वीकारात् न दोषः । एष एव न्यायो 'वैशेष्यात्तु तद्वादः' इति सूत्रेमिऽप्रेतः । रूपादिमात्रस्यानादित्वे तु न कापि शङ्का, पृथिव्यादिजनकसामग्रीव्याप्यसामग्रया एव नीलादि- विशिष्टजनकत्वस्वीकारेणा का शादेनरूपत्वादिसम्भवात् । दृष्टस्य प्रत्यक्ष- विषयस्य । दृष्टं प्रत्यक्षम् । गृहीतप्रामाण्येति । मिथ्यात्वश्रुति- 1 पञ्चभूतस्य 2 युत्पत्तिव्यवहित. 1 2 23*