पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

366 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः मङ्गीकुर्वतां अस्माकमिदमनिष्ट महदापादितं देवानांप्रियेण । ननु साक्षिप्रत्यक्षं न बाध्यम्, दोषाजन्यत्वात् ; प्रत्युत श्रुतिजनिता- द्वैतज्ञानमेव बाध्यम्, तात्पर्यभ्रमरूपदोषजन्यत्वादिति चेन्न; 1 स्वरूपानपहारकत्वा द्वेषया पहारो बाध इति परैरपि स्वीकारात् " इति, तचुच्छम् ; फलपर्यन्तव्यवहारस्य तात्त्विकतानिर्णायकपरीक्षात्वस्य 3 , पूर्वमेव निरासात् । अन्यथा इन्द्रजालस्यापि तदापत्तेः, बलवच्छ्रुत्या- श्रितत्वेन तात्पर्यलिङ्गानां बलवत्त्वात् तत्त्वं तु धर्मि स्वरूपमपि वर्धमानोक्तौ स्वसम्बन्धिप्रतियोगिक भेदवदसम्बन्धि तत्त्वमिति विवक्षि- तत्वात् । अन्यथा धनादिकं धन्यादेवैशेषिकाभिमतविशेषादेः तत्स्वरूपं च तस्वं न स्यात् । तथाच स्वस्य स्वस्मिंस्तादात्म्याङ्गीकारे तादात्म्येन स्वसम्बन्धिस्वप्रतियोगिक भेदवति तदात्म्येनासम्बद्धत्वात् स्वमपि स्वस्य तत्त्वम् । तदनङ्गीकारे तु स्वभिन्ने तेन सम्बन्धेन असम्बन्धित्वे सति तेन सम्बन्धेन स्वसम्बन्धित्वं स्वभेदशून्यत्वं चेत्यन्यतरंवत् स्वस्य तत्त्वमित्येव विवक्षितम् । वस्तुतस्तु अनारोपितं तत्त्वमिति लक्षणे सर्वस्यापि भ्रमप्रकारत्वरूपारोपितत्वेन अप्रसिद्धिमाशङ्कय, वर्धमानेन तथोक्तत्वादस्मन्मते चाधिष्ठानतत्त्व शब्देन अज्ञानविषय- सम्बन्धिनोऽनारोपित ' स्वरूपस्योक्तया तदज्ञानविषयस्य अवच्छेदकत्व- भेदशून्यत्वान्यतररूपसम्बन्धवत्त्वे सति तदज्ञान " कार्याविलक्षणस्य पर्य. वासतार्थस्य सुप्रसिद्धत्वात् परप्रलापानवकाश इति ध्येयम् । उपलक्ष्ये कञ्चिद्धर्ममादधत एवोपलक्षणत्वमिति त्वस्मदविरुद्धम्; 'ज्ञानविषयत्वस्त्यैव तादृशधर्मत्वात् । कश्चित्प्रकारमित्यादिसूत्रव्याख्याने च प्रकारशब्दः 'एकवैवानुद्रष्टव्यः' इत्यादिश्रुतौ एकधैव निर्विकल्पेन घटो ज्ञात 4 3 धर्म. 5 विषयस्या- 'कत्वादिति विषया. 2 परीक्षाक्षमस्य. नारोपित 8 तज्ज्ञान. " त्वस्मद्विरुद्धम्. ष्ठानत्व. 2