पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

368 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः ——— चैतन्यस्य स्त्ररूपतो दोषाजन्यत्वेऽपि तदवच्छेदिकाया अविद्या- वृत्तेर्दोषजन्यत्वान, तत्प्रतिबिम्बितचैतन्यस्यैव साक्षिपदार्थ- त्वात् । अद्वैततात्पर्यग्रहस्य च प्रत्यक्षाद्यविरोधेन प्रमारूपतया प्रयुज्यते । उपलक्षणशब्दार्थ एव इत्थंभूतलक्षणेति सौत्रशब्दार्थ इति ते भ्रमः । स्वविशेष्यान्वितानन्वयि उपलक्षणमित्यपि हि व्यवहार- स्तान्त्रिकाणाम् । अतएव गोत्वेनोपलाक्षतं व्यक्तिस्वरूपं गोपदशक्यं धेनुपदशक्यवदित्या राय गोत्वस्य व्यक्तिबोधे भानावश्यकत्वान्निराकृतं मणौ शक्तिवादे । उक्तं च तत्र – “गोत्वविशिष्ट एव कार्यान्वयात् गोत्वं विशेषणं नोपलक्षणं, तदन्येन कार्यान्वये उपलक्षणं, यथाऽयं वासस्वी देवदत्तशब्दवाच्य इत्यत्र बासः " तस्माद्विशेषणशब्दव्यव हार्यभिन्ने उपलक्षणशब्दप्रयोगात् व्यावृत्ताकारधी विषये विशेषणपदस्य तदन्यत्र उपलक्षणशब्दप्रयोगो युक्त एवेति पन्च क्याथबोध: स्वस्यास्तु वा यथातथेत्यनेन त्वयैव सूचितः । विषयापहारों बाध इत्यत्र तु विषयोऽज्ञानप्रयुक्तरूपो विवक्षितः । तथाच शुद्धस्य उपहितविषयक भ्रमविषयत्वेऽपि न क्षतिः । नन्वविद्यावृत्ति विनापि विषयेषु सुखादिषु साक्षिणः सम्बन्धसम्भवात् तदङ्गीकारो व्यर्थस्तत्राह -- तत्प्रतिचिम्चित- चैतन्यस्येति । शुक्तयायवच्छन्नन्ब्रह्मचैतन्याध्यस्तरजतादेः साक्षिसम्ब- धार्थ अविद्यावृत्तिरवश्यं वाच्या | तत्र चाविद्यैव कारणमिति सुखादिष्वपि सा आवश्यकी; विषयतासम्बन्धेन तदुत्पत्तौ अज्ञातविषयभेदस्य हेतु- त्वात् घटादौ तदनुत्पत्तिरतीतावस्थसुखादौ उक्तभेदस्यासत्त्वात् तत्रापि तदनुत्पत्तिः । अविद्यासुखादौ 3 तत्कालीन मनोवृत्तौ च एकस्या एवा. विद्यावृते स्वीकारादविद्यावृत्त्यवच्छिन्नचैतन्यस्य साक्षिपदार्थता उप- पद्यते । न च शुक्तिरूप्यादिी भन्नकाली नसुखादावनन्ताविद्यावृत्ति कल्पने गौरवात् शुक्तिरूप्यादिस्थलीयदोषविशेषाणामेव अविद्यावृत्तिहेतुत्वं न 1 साकारविधि. 2 उपहितविषयत्वेऽपि. 3 अविद्याधीन सुखादौ, नर्काधीन,