पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

370 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः दोषत्वाभावात् न तञ्जन्यमद्वैतज्ञानं बाध्यम्; भ्रमजन्यत्वस्य विषयबाधाप्रयोजनत्वाच्च । न च बाधकतुल्यमानताकद्वैतश्रुति- संवादद्वैतप्रत्यक्षं कथं बाध्यमिति वाच्यम् ; द्वैतस्य प्रत्यक्षादि- लौकिकमानसिद्धत्वेन तद्बोधकश्रुतेरनुवादकतया फलवदज्ञातस्वा- र्थतात्पर्यकाद्वैत श्रुतिसाम्याभावात् । ननु बाधकधीवोध्यं न बा- ध्यम्, भेदश्व बाधकधीबोध्यः; तया स्वविषयस्य भिन्नत्वेनैव ग्रहात्, नेदं रजतमितिवदभिन्नतया उदासीनतया ग्रहणे बाध- 9 गौरवात् ब्रह्मज्ञानान्यस्य आवरणा नाशकत्वपक्षे तत्सम्बद्धत्वासम्भ- वाच्च, यदाकारवृत्तिप्रतिबिम्बितं यच्चैतन्यं तत्तत्सा क्षिपदार्थ इत्यभि- प्रायाच्च, अविद्यावृत्तिद्वयस्य युगपदुत्पत्तिस्वीकारात् परस्पराकारकत्व मेकस्या एव वा वृत्तेः स्वस्वतराकारकत्वमिति नानुपपत्तिः । एतेन शुद्धचिदेव साक्ष्यस्त्वित्यपि प्रत्युक्तम् । यदेव हि विषयसम्बद्धतया भासकं तदेव साक्षि, न च शुद्धं तथा, कैवल्येऽपि तत्त्वापत्तेः । यत्तु मनउपहितमेव चैतन्यं साक्षि, अन्यथा एकमनोवच्छिन्नस्य प्रमातुरन्य- मनस्तद्धर्नादिप्रत्यक्षत्वापत्तेरिति ; तन्न रम्यम् ; अहंपरमन आदिकं साक्षा- त्करोमीति व्यवहारे तत्तन्मनोवच्छिन्नसाक्षिणः परमनआदिविषयकस्य विषयत्वात्तस्य च बाधितत्वादविद्योपहितस्य साक्षित्वे बाधकाभावेन मनोभेदेन साक्षिपदार्थभेदे मानाभावात् । अन्यथा तत्तच्छरितत्तत्का- लावच्छिन्नेन चैतन्येन शरीरान्तरकालान्तरीयसुखादिकं प्रत्यक्षीक्रियेतेति तद्वारणाय तत्तच्छरीरकालावच्छिन्नस्यैव साक्षिपदार्थत्वापत्तेः । तत्तच्छ- रीरावच्छिन्नस्य शरीराद्यन्तरीयसुखाद्यसम्बन्पान्नोत्तापत्तिश्चेतर्हि तत्तन्म- नोवच्छिन्नस्य मनोन्तरासम्बन्धोपि सम इति विभावनीयामेति दिक । पश्चाद्वाध्यतात्पर्यधीश्रम एवेत्यत आह - भ्रमजन्यत्वस्येति । लिङ्गा- 1 आवरण, 2 न सम.