पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः आगमादिप्रामाण्यमूलकशङ्काया एव स्वीकारात् । रूप्यादिनिषे- धस्य तु 'नेदं रजतम्' इत्यादेरद्वैतश्रुत्यनुगुणत्वेन नाप्रामाण्य- शङ्कास्कन्दनम् । अतो न वृद्धिमिच्छतो मूलहान्यापत्तिः । नापि सन् घट इत्यादेः नेदं रजतमित्यनेन समानयोगक्षेमता; अद्वैत- श्रुतिविरोधाविरोधाभ्यां विशेषात् । अतएव सौषुप्तिकानन्दानु- भवस्याप्यप्रामाण्ये कथमात्मन आनन्दरूपता तात्त्विकी, आन- न्दश्रुतेर तुभृतातात्त्विकानन्दानुवादकत्वांपपत्तेरित्यपास्तम्; आ- नन्दस्य ब्रह्मरूपत्वेन अद्वैतश्रुतिविरोधाभावेन तदप्रामाण्यप्रयो- नेदं रजतमित्यादिप्रत्यक्षस्यापि भ्रमबाघकत्वकाले भ्रमत्वशङ्कासम्भवः, तथाचाकाशादिमिथ्यात्वानुमितौ दृष्टान्ततया मूलीभूतशुक्तिरूप्यादि- मिथ्यात्वहानिस्तत्राह - रूप्यादीति | सत्त्वप्रत्यक्ष इवाद्वैतश्रुतिविरु- द्धार्थकत्वस्य बीजस्याभावात् नोक्तवत्यक्षे भ्रमत्वशङ्का, अद्वैतश्रुत्या द्वैतमिथ्यात्वं शुक्तिरूप्यादिबाघकाले न निश्चितं, श्रवणादिना तस्या- स्तत्र तात्पर्यानिश्चयात् । अतो न मिथ्याविषयकत्व रूप भ्रमत्व निश्चयः । तन्निश्चयेप्यज्ञानावच्छेद कविषयकत्वादिरूपव्यावहारिकप्रामाण्यस्य अन्यू- नसत्ताक विषयकत्वस्य बाधकताप्रयोजकस्य न क्षतिः । इत्थंच श्रव- णादिहीनया तथा मिथ्यात्वसंशयेन उक्तभ्रमत्वसंशयेपि न क्षतिरिति भावः । अनुगुणत्वेन विरुद्धार्थकत्वाभावेन । तदप्रामाण्येति । यद्यपि सौषुप्तानुभवोऽज्ञानोपहितानन्दरूपत्वाविषयांशे भ्रम एवेत्येवं वक्तुं युक्तम्; तथापि तदंशे भ्रमत्वे उपहितविषयकस्य शुद्धवि- षयकत्वनियमेन अवश्यविषयीभूतशुद्धांशेऽपि भ्रमत्वमिति पराभिप्रेत- निरासायेदमुक्तम् । शुद्धानन्दरूपतदंशे अप्रामाण्येति तदर्थः । अत- एव शुद्धानन्दांशे अप्रामाण्यप्रयोजकाभावादेव। सौषुप्तानुभवस्य शुद्धानन्दविषयकत्वेऽपि तद्विरोध्युपहिताकारत्वेन व्यावृत्ताकारत्वामा- बात् न व्यावृत्ताकारधीजनकानन्द श्रुत्यनुवादकमिति भावः । अत्य- 375