पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

384 अद्वैतसिद्धिव्याख्यायां गुरुचांन्द्रकायां मित्यत्र मीमांसकं प्रति जन्यत्वस्येव विश्वपरमार्थत्ववादिनं प्रति परमार्थत्वस्व प्रमेयत्वादिवदुपरञ्जकत्वेन विशेषणत्वोऽ- पपत्तेश्च | तस्मात् पूर्वोक्त एत्र दोषः | हेतौ च व्यर्थविशे षणत्वदोषः । यद्यपि मतद्वयेपि अप्रामाणिकस्यापि निषेधप्र- प्रथमः 1 - त्रैक्यस्य साधनसम्भवे परमार्थेति प्रकार विशेषणं व्यर्थमित्यर्थः । जन्यत्व- स्येवेति । ईश्वरानङ्गीकारेण तदीयनित्यकृतेरनङ्गीकारिणं मीमांसकं प्रति जन्यत्व मव्यावर्तकमिति भावः । उपरञ्जकत्वेनेति । अव्या- वर्तकत्वेनेत्यर्थः । प्रतिवादिवादिनोम्सिद्धं व्यावर्तकत्वं नापेक्षते, किन्तु तयोरन्यतरसिद्धमिति भावः । उक्तं हि मण्यादौ – “अदृष्टद्वारको पादानगोचरजन्यकृत्यजन्यानि समवेतानि स्वजनकादृष्टोत्तरोपादानगो- चरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि, समवेतत्वे सति प्रागभावप्रति- योगित्वात् ; यदेवं तदेवं यथा घटः । न च जन्यत्वव्यावर्त्याप्रसिद्धिः; प्रमेयो घट इतिवदव्यावर्तकत्वेऽपि तदुपरक्तबुद्धेरुद्धेश्यत्वेन तस्योप- रञ्जकत्वात्" इत्यादि । ननु ब्रह्मज्ञानेतराबाध्यत्वमप्रसिद्धम् ; मन्मते ज्ञानमात्रस्य सद्रूपब्रह्मावगाहित्वेन तदितरत्राध्यत्वाप्र सद्धेः । अथ ब्रह्ममात्रविषयकज्ञानं निवेश्यं तदापि परमते तद्प्रसिद्धम् । अतः पक्षहेत्वोरप्रसिद्धदोषः कुतो नोच्यते' किञ्च प्रातिभासिकस्य अप्र.नागि- कत्वेन तदन्यत्वमप्रसिद्धम् ; वेदान्ततात्पर्यत्रमाजन्यत्वस्य शुद्धब्रह्मशाब्द- प्रमात्वरूपस्वावच्छेदकघाटतत्त्वात् मोक्षहेतुत्वस्य च विजातीयज्ञान- स्वरूपस्वावच्छेदकघटितत्वात्ता दृशावच्छेदकाप्रसिद्धेरप्रसिद्धिः परमते, तत्राह - यद्यपीति । अप्रामाणिकस्येति । अप्रसिद्धस्य नमाणाविषयस्य चेत्यर्थः । अहृदयवाचामहृदयमेवोत्तरमिति न्यायेन स्वमतासिद्धस्थापि पर प्रसिद्धिमात्रेण निषेधप्रतियोगितया प्रयोगः | प्रमाणाविषयस्यापि 2 , 1 अजन्यत्व. 2 निवेश्यते. 3 परमत. ,