पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

388 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकया। [प्रथमः घाताच ननु ब्रह्मण्यसत्प्रातिभासिकव्यावृत्तिरूपं हेतुं प्रति व्याव- र्तकतया प्रयोजकत्वेन परमार्थसत्त्वं क्लृप्तम् । अपृथिवीव्यावृत्तिं प्रति पृथिवीत्वस्येव असयावृत्ति प्रति तद्विरुवसत्वस्यैव प्रयो- जकत्वात् । ज्ञानत्वानन्दत्वादिकं तु न तत्प्रयोजकम् । साक्षाद- सच्चाविरोधित्वात्, प्रपञ्चे तदभावाच्च । तथाच ब्रह्मविश्वसा- धारणं परमार्थसत्त्वमेव तत्प्रयोजकम् । न च विश्वमिथ्यात्वात् परमार्थसत्त्वमपि न विश्वसाधारणम् | ज्ञानत्वानन्दत्वादिवदिति वाच्यम् । अन्योन्याश्रयापत्तेरिति चेत् । अयुक्तमेतत् न हि प्रातिभसिकासतोरेका व्यावृत्तिरुमयी वा समव्याप्ता । येनैकप्रयोजकप्रयोज्या भवेत् । किन्तु प्रातिभासिकव्यावृत्ति- न्तरघटितत्वं व्यर्थविशेषणत्वं तदभावविशिष्टहेतुतावच्छेदकं व्याप्ति- घटक मिति दीघित्यादावुक्तमनादेयम् | ईश्वरवादीयपक्षधरीये अथ तादृशधर्माघार्टतत्वमपि विशेषणम्' इति वाक्ये पूर्वोक्तसाध्यसम्ब- न्धितावच्छेदकस्यैव तादृशपदेनोक्तत्वात् स्वसामानाधिकरण्यादिवि- शेषणस्य स्वकपोलमात्रकल्पितत्वेन नियुक्तिकत्वात् । धूमप्रागभावादौ व्यर्थविशेषणत्वस्य उचितत्वात् यदि च निग्रहस्थानत्वरूपा व्याप्य त्वासिद्धिरेव व्यर्थविशेषणस्य दोषत्वं न तु हेत्वाभासत्वमिति मत- माद्रियते, तथापि व्याप्तिग्रहानौपयिकमात्रस्य तत्तान्त्रिकसम्मतमित्य- सिद्धिमात्रबारकस्यापि प्रातिभासिकत्वस्य प्रकृते तदावश्यकमिति ध्येयम् प्रातिभासिकासतोरिति । प्रातिभासिकत्वेन मेदः, असत्त्वेन च भेदः नैकः ; न वा तौ समव्यााप्तावित्यर्थः । ननु प्रातिभासि- कासतोरन्यतरत्वेन याव्यावृत्ति: तत्प्रयोजकतया ब्रह्मणि सत्त्वं सिद्धमित्याशङ्कय, क्लृप्तस्य ब्रह्मप्रपञ्चान्यतरत्वस्यैव तत्प्रयोजकत्व- सम्भवात्, अन्यथा ब्रह्मासदन्यतरव्यावृत्तिप्रयोजकतया प्रातीतिके । विशेषणत्वस्या नन्वितत्त्वात्तद्घटिते च निग्रह ( पा). 2 व्याप्तिः 1