पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भाविबाधोद्धारः 389 प्रयोजकं ब्रह्म विश्वासत्साधारणमेव वक्तव्यम् । असत्यपि प्रातिभासिकत्वाभावात् । एवमसद्वथावृत्तावपि प्रयोजकं ब्रह्म विश्वप्रातिभासिकसाधारणमेव वक्तव्यम् । प्रातिभासिकेप्य- सत्त्वाभावात् । तथाच तत्प्रयोजकद्वयसमावेशादेव ब्रह्म- ण्युभयव्यावृत्त्युपपत्तौ नीलत्वघटत्वरूपावच्छे इकद्वयसमावेशोप- पत्रनलिघटत्ववत् नातिरिक्त प्रयोजककल्पनायामस्ति किञ्चि- न्मानमिति कृतबुद्धय एव विदांकुर्वन्तु । नित्यत्वं चोपाधिः तुच्छप्रातिभासिकयोः नित्यत्वव्यतिरेके साध्यव्यतिरेकदर्शनात् । - - 19 मिथ्यात्वं सिद्धमित्यस्यापि मया वक्तुं शक्यत्वा दुभयमतक्लृप्तातिरि- क्तप्रयोजकसिद्धौ न मानमित्याशयेनाह -- अतिरिक्तप्रयोजकेति । नित्यत्वव्यतिरेक इति । सति सप्तम्या अवच्छिन्नत्वलाभात् नित्यत्वव्यतिरंकव्यापकस्य साध्यव्यतिरेकस्य लाभः । ननु - देहा- त्मैक्ये बाधायुक्तिरयुक्ता; मन्मते तस्यैवाप्रसिद्धत्वात् सत्यत्ववादि- मिथ्यात्ववाद्युभयसिद्धमिथ्यात्वकं यत्तदन्यत्वस्य प्रातितिक'व्यावर्तकसत्य न्तार्थत्वसम्भवाच्च । अनधिकरणत्वे सतीत्यादिहेतुसम्भवात् प्राति- भासिकत्वं व्यर्थमित्यपि न युक्तम् ; ब्रह्मण्यनधिकरणत्वासिद्धेः, व्याप्तयग्रहादधिकरणत्वसामान्याभावस्य हेतावप्रवेशेनोक्तवैयर्थ्यासम्भ- वाच्च । प्रातिभासिकव्यावृत्तिप्रयोजकं ब्रह्मविश्वासत्साधारणमित्याद्ययु- क्तम् ; तव मते त्रिषु एकम्या व्यावृत्तेरसम्भवात् ब्रश्चणि हि तत्स्वरूपा सा विश्वस्मिन् व्यावहारिकभेदरूपा, असत्तु निर्धर्मकत्वात् न तद्वत्, किन्तु सैवासन्निष्ठा । अतएव न ब्रह्मादिष्वनुगतं । प्रयोजकमास्त,, ब्रह्मासतोनिर्धर्मकत्वात् । ब्रह्मविश्वयोस्तु प्रातिभासि- कासद्व्यावृत्तिरेका सम्भवतीति तत्प्रयोजकं सत्त्व मावश्यकम् | नित्य- 1 प्रातिभासिक, 2 नित्य,