पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] भाविबाधाद्धारः 393 ब्रह्मणस्सप्रकारकज्ञानविषयत्वम् । न च धर्मवतो दृष्टान्तते- त्युक्तम् । तस्य पक्षकुक्षिनिक्षिप्तत्वेन निश्चितसाध्यवत्वाभावात् । द्वितीये तत्वावेदकत्वस्य अबाधितविषयत्वरूपत्वेन साध्य- विशेषपर्यवसानात् हेतुग्रहे सिद्धसाधनम् | हेतुग्रहे तु स्वरूपा- सिद्धिः । यत्तु प्रमाविषयत्वमात्रेणैव परमार्थत्वोपपत्तौ विशेषणे व्यर्थ इति, तन्नः पुरोवर्तिनं रजततया जानामत्याद्यनु- व्यवसायरूपप्रमाविषये प्रातिभासिके व्यभिचारवारकत्वात् । साक्षात्पदस्य तत्रैव च मिथ्यात्वप्रमितेः साक्षाद्विषये व्यभिचार- वारकत्वात् । अनिषेध्यत्वेनेत्यस्य न ह्यनुव्यवसायमिथ्यात्वप्रमे न भवतः । नाप्यनिषेध्यत्वेन ईश्वरं प्रति साक्षादपरोक्षत्वं ज्ञाने अज्ञानविषयत्वाद्युप'हितम्येव भानमिति भावः शुक्तिरूप्यादेरपि स्वाश्रये स्वप्रकारकधीविषयत्वात् मन्मते व्यभिचारः, परमतेऽपि यद्यपि तस्यासत्वेन तदाश्रयाप्रसिद्धया न व्यभिचारः, तथापि ब्रह्मणोऽप्याश्र- याप्रसिद्धया साधनवैकल्यम् । अथ स्वकीययत्सम्बन्धवति स्वप्रकारक- धीविषयत्वं हेतुः, तत्सम्बन्धावच्छिन्न प्रतियोगिता कसर्वदेशकालवृत्त्य- भावा प्रतियोगित्वं साध्यम् । अतएव रजतादेस्तादात्म्यादिसम्बन्धेन मिथ्यात्वं, न तु विषयितादिसम्बन्धेनेति । तथाप्यधिष्ठानचैतन्ये रज- तस्य यः सम्बन्धः तेन तस्य मिथ्यात्वमवश्यं वाच्यम् अधिष्ठानचिदेव तस्याभावः । तथाच तदंशे तेन सम्बन्धेन रजतप्रकारके रजतमत्र नास्तीति ज्ञाने प्रमात्वाभावादनिषेध्यत्वेनेति व्यर्थम् । न ह्याधार एवाभाव इति प्राभाकराढिमते सुखाद : स्वध्वंसादिरूपात्मनि समवायान्यसम्बन्धः कल्प्यते; क्लृप्तसम्बन्धेनैव निर्वाहात् । एव रजततदाकारवृत्त्योरिव तयोस्सम्बन्धस्यापि कल्पितत्वात् साक्षादित्यपि व्यर्थम् । यत्त्वित्या- 1 त्वादुप. वृत्यन्ताभावा. शुक्तप||देः. 2 3