पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

410 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः हात् । अप्रयोजकत्वादिकं च पूर्वोक्तं दूषणमनुवर्तत एव । आत्मा परमार्थसदन्यः पदार्थत्वादनात्मवत् । न च कल्पितात्मप्रति- योगिक भेदेनार्थान्तरम् । कल्पितमिथ्यात्वेन मिथ्यात्वानुमानेऽपि सिद्धसाधनापत्तेरित्यपि न । व्यावहारिकपदार्थमादाय सिद्धसाधने अतिप्रसङ्गाभावात्, अनानन्दत्वस्यापाधित्वाच्च । अथ आत्मा यावत्स्वरूपमनुवर्तमानानात्मवान्, यावत्स्वरूपमनुवर्तमानभाव- रूपानात्मवान् वा पदार्थत्वात् भावत्वाद्वा घटादिवत् । अत्र पञ्जमप्रकाराविद्यानिवृत्त्यभ्युपगमपक्षे साध्ययोः भावरूपपदमनात्मविशेषणमित्यपि सिद्धसाधनपरिहाराय मन्दम् । यावत्स्व - शोभते । सत्यत्वं, प्रातिभासिकान्यसर्ववृत्ति न, सत्यमात्रवृत्ति- त्वादित्याभाससाम्यमप्रयोजकत्वं चेत्याह –अप्रयोजकत्वादि कमिति । पदार्थमिति । आत्मभेदपदार्थमित्यर्थः । न चात्मनि त्वन्मते तद्भेदस्यास्वीकारात् न सिद्धसाधनमिति वाच्यम्; जीवत्वा- द्यवच्छेदेन शुद्धस्य तदनवच्छेदेनापि शुद्ध जीवादे: भेदसत्त्वात् ' तस्य भासा' आनन्दं ब्रह्मणो रूपम्, इत्यादिश्रुत्यनूदितस्य जीवत्वा - द्यनवच्छेदेनैव शुद्धात्मनि तत्प्रतियोगिक भेदस्य व्यावहारिकस्य सिद्धान्ते स्वीकाराच्च । 'आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः, अपृथक्तेऽपि चैतन्यात् पृथगिवावभासन्ते' इत्यादिपञ्चपाद्याद्युक्तभेदस्य व्यवहारकालाबाध्यत्वात् अनानन्दत्वस्येति । न च परमार्थसदैक्य- रूपं साध्याभावं विनाप्यानन्दत्वस्योपाध्यभावस्थोपपन्नत्वान्न तस्य तद्ध्या- व्यताप्राहकस्तर्क इति वाच्यम्; खण्डनयुक्तिभिरेकस्य साक्षिस्व- रूपस्य बाघासम्भवेन परमार्थसत्त्वेऽपि परमार्थसद्भेदस्य अवश्यं बाघात्, 'नाल्पे सुखमस्ति भूमैव सुखम्' इत्यादिश्रुत्या सद्वृत्त्य- भावप्रतियोगित्वरूपस्य परिच्छेदस्यानन्दरूपताविरोधित्वोक्तेश्च । भावा- द्वैतमते तात्त्विकस्याभावरूपानात्मनः स्वीकारादाह - भावरूपेति । - .