पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] विशेषतोऽनुमानानि नित्याभावत्वात्, अन्योन्याभाववत् । अत्यन्ताभावत्वं 1 दोषाभावात्, गवि तन्नाशकाले गोत्वं समवायेन नास्तीत्याद्यनुभवेन परमते समवायाद्यवच्छिन्नगोत्वाद्यभावस्याप्यवच्छिन्नवृत्तिकत्वेन द्विती- यदोषस्याप्यभावात् । अतएव ज्ञायमानसामान्यस्य प्रत्यक्षकारणत्वे भाविघटादौ घटत्वाद्यभावात् व्यभिचोरण सामान्यज्ञानस्य कारणत्वं दीघित्यादावुक्तम् । अवच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वेन कुत्र- चिदत्यन्ताभावे सिद्धसाध्यकत्वस्यादोषत्वाच्च । एवंच पूर्वकल्पेऽत्यन्ता- भावे प्रतियोग्यवच्छेदकावच्छिन्नत्वस्य द्वितीयकल्पेऽनवच्छिन्नत्वस्य च 2 साधर्म्यमव्याहतं, प्रतियोग्यवच्छेदकावच्छेदेना भावस्याग्रहणात् प्रतियो- ग्यवच्छेदकावच्छिन्नत्वभ्रमः परेषामिति दिक् । नित्याभावत्वादिति । सदातनाभावत्वादित्यर्थः । ध्वंसादौ व्यभिचारात्सदातनेति । अविद्यादेः पूर्णानन्दाद्यभावत्वात् पूर्णानन्दरूपप्रतियोग्यवच्छेदकाप्रसिद्ध्या व्यभि- चारः । न च तत्त्वज्ञानोत्तरकालस्यैव तदवच्छेदकत्वेन कल्पितत्त्वान्ना- प्रसिद्धिरिति वाच्यम्; तथाप्यविद्यादौ तत्कालावच्छिन्नत्वस्याभावात् तत्पूर्वकालावच्छिन्नत्वाच्च कल्पद्वयेपि व्यभिचारात् -- अतोऽभावेति । भावविलक्षणेत्यर्थः । अन्योन्याभाववदिति । आद्यसाध्ये गोत्वादि - भेदस्य गोत्वाद्यवच्छेदकगवाद्यवच्छिन्नत्वात् गोत्वादितद्भेदयोः काल- वृत्तित्वे गवादेरवच्छेदकत्वात् न साध्यवैकल्यम् ।। द्वितींयसाध्ये तु तस्य किञ्चिदवच्छिन्नदैशिकवृत्तिकान्यत्वरूपस्य विवक्षितत्वे भेदमात्रं दृष्टान्तः । दैशिकत्यस्यानिवेशे तु वाच्यत्वादिकं । तस्य कालिकवृत्ते- रप्यनवच्छिन्नत्वात् । न चोक्तरीत्या घटादौ तन्नाशकालावच्छेदेन तद्वे- दोऽपीति साध्यवैकल्यमिति वाच्यम्; भेदमात्रस्य व्याप्यवृत्तित्वमते तदभावात् मतान्तरे 3 सन् ( त्) पदार्थभेदस्यदृष्टान्तत्वसम्भवाञ्च | । 1 नवच्छिन्नवृत्तिकत्वस्य, 2 साधनम्. 3 सनपदार्थभेदस्यामादृष्टान्तत्व. 427