पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः प्रथमपक्षेणेति विवेकः । विमतं मिथ्या, मोक्षहेतुज्ञानाविषयत्वे सत्य सदन्यत्वात्, युक्तिरूप्यवत् । मोक्षहेतुज्ञानविषयत्वम् पर मार्थसच्चव्यापकम्, परमार्थसत्त्वसमानाधिकरणत्वात्, पारमा - र्थिकत्वेन श्रुतितात्पर्यविषयत्ववत् । एतत्पटात्यन्ताभावः एत- 436 पर्यवसानानुपयुक्तत्वात् पूर्व न विकल्पित इति भाव । प्रथमेति । दृष्टान्त म्योभयसम्मत्यपेक्षणे मन्मते अन्त्यपक्षस्यासम्भवात् उभयमतेऽपि मध्यपक्षासम्भवात् प्रथमपक्षेणैव तत्र साध्यसिद्धिः । दृष्टान्तस्य प्रति- वादिमात्रसम्मत्यपेक्षणे तु चरमपक्षेणापि तत्र सा सम्भवति । प्रथम इव चरमेऽपि मिथ्यात्वरूपविशेषणाभावात् उक्तरूपेणाभावस्य सम्भ- वादिति बोध्यम् । परमार्थसत्त्व समानाधिकरणत्वादिति । न च परमार्थसत्त्वस्यैव तादात्म्येन हेतुत्त्वसम्भवादन्यांशवैय्यर्थ्यमिति वाच्यम्; तत्समानाधिकरणत्वनिष्ठव्या तेस्तत्त्वेन वच्छेदासम्भवात् । अस्तु वा तस्यैव हेतुत्वे तात्पर्यम् । न च स्वरूपासिद्धिरिति वाच्यत् ; पर- मार्थसत्त्वस्याबाध्यत्वव्यापककिञ्चिद्बुद्धिविषयत्वरूपस्य पक्षीकृते मोक्ष- प्रयोजकत्वविशिष्टे म्वस्मिंस्तादात्म्यसत्त्वात् । श्रुतितात्पर्यविषयत्वेति श्रुतिनिष्ठशक्तयधीनप्रमाविषयत्वेत्यर्थः 1 तादृशे ज्योतिष्टांमादिनिष्ठे 'सांमेन यजेत' इत्यादिश्रुतिजन्यधाविषयत्वे साध्यवैकल्यादाह---- पारमार्थिकत्वेनेति । अबाध्यत्वव्यापकति तदर्थः । स चोक्तविष- यत्वविशेषणं, तादृशं च विषयत्वं परमतं विश्व सत्यमित्यादि- श्रुतिजन्यधीविषयत्वम् । मन्मते तत्त्वमस्यादिश्रुतिजन्यधीविषयत्वमेव । पक्षदृष्टान्तयोरभेदेऽपि तत्त्वावच्छेदकभेदान्न दोष ; पक्षतावच्छेदकसा- मानाधिकरण्येनानुमितेरुद्देश्यत्वपक्षस्यापि प्रकृते वक्ष्यमाणत्वात् । पटा- न्तरप्रतियोगिकात्यन्ताभावे सिद्धसाधनात् एतदिति पक्षे दत्तम् । तन्त्वन्तरनिष्ठत्वस्य सिद्धत्वात्साध्ये प्येतदिति । पटान्तरप्रागभावे । •