पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः पदार्थ- पक्षतावच्छेदकवत्, केवलान्वय्यत्यन्ताभावप्रतियोगि, त्वात्, नित्यद्रव्यवदित्यपि साधु | दृष्टान्तश्चायं पररीत्या । स्वमते तु 440 , र्देशा' वच्छिन्नवृत्तित्वस्य उक्तरूपम्य सत्त्वादयुक्तमेतदिति वाच्यम्; समग्रमिदं कपालद्वयम्. घटस्समग्रः एते तन्तवः, पटः कश्चिदप्यत्र, कपालादेरंशो न घटाद्यन्य इति प्रतीत्या अवच्छिन्नवृत्तिकत्वाभावसि- ड्योक्तप्रतीतेरसिद्धेः कपालाद्याधेयत्वविषयकतया उक्त प्रतीतेर्मन्मते भ्रम- त्वाच्च । न चैवमपि कपालादौ स्वनाशकालावच्छेदेन घटादिसमवाया- भावादन्यकालावच्छेदनैव तत्समवायात् घटादीनामपक्षतापत्तेस्तादव स्थ्यमिति वाच्यम्; प्रपञ्चसत्त्वमते ध्वंसप्रागभावाभ्यामेव घटादिनाश- काले कपालादौ घटादिकं नाम्तीति बुद्धयुपपत्तेः, तत्र तदत्यन्ताभाव- सत्त्वे मानाभावात् घटत्वावच्छिन्नव्यधिकरणध्वंसादिविषयकत्वस्वीका रादेव घटादिमति किञ्चिद्धटादिध्वंसादिकमादाय तादृशप्रतीत्या पत्त्यभा- वात् । एतेन नष्टकपालादौ घटादि नास्तीति धीरपि व्याख्याता; प्रतियोगितासम्बन्धेनेव विशेषणतासम्बन्धेन नष्टकपालेऽपि घटध्वंससत्त्व- सम्भवात् । अत्यन्ताभावानवगाहितत्प्रतीत्या घटादेवच्छिन्नवृत्तिकत्वा- सिद्धेः । केवलान्वयीति। वृत्तिमदत्यन्ताभावाप्रतियोगीत्यर्थः । गगने परमत साध्य वैकल्यवारणाय वृत्तिमदिति । गगनादेः परमते स्वाभा वाभावत्व- स्वीकारे तु तन्न दयम् । अधिष्ठानचिद्रूपात्यन्ताभावस्यात्यन्ताभावा- प्रतियोगित्वात् तत्प्रतियोगित्वमनात्ममात्रेऽस्तीति बोध्यम् । पदार्थ- त्वादिति । ब्रह्माविषयक विषयत्वादित्यर्थ । ब्रह्माण व्यभिचाराद्विशे षणम् । स्वमते त्विति । स्वमते आकाशादेर्वृत्तिमत्त्वस्वीकारात् साध्यस्य तत्रोक्तानुमानात्पूर्वमसिद्धत्वात्स न दृष्टान्तः । तथाच नित्य- , 1 2 दशा. ' स्वाभाववत्व. स्त्राववत्त्व स्वी.