पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः 451 वा । जन्मा- व्यतिरिक्तत्वेनात्मनः प्रत्यक्षतैव नास्ति । अन्यथा प्रत्यक्षप्रा- माण्यवादिनश्चार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यादित्युक्तम् । न तु वादिविप्रतिपत्तिनिरासेनास्तीत्यादेस्सार्थकत्वमननुवादकत्वं तथाचोक्तं तत्रैव 'तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे न्तरेष्टानिष्टप्राप्तिपरिहारविशेषोपाये च शास्त्रं प्रवर्तत' इति । ननु चातुर्मास्यमध्यपर्वणोः 'द्वयोः प्रणयन्ति' इति वाक्यस्य अन्यथा अग्निर्हिमस्य भेषजमित्यादेरप्यनुवादत्वासम्भवात् । चार्वाकादे- रिति । न चैव सत्वेन विश्वस्य प्रत्यक्षतापि नास्ति, अन्यथा तत्रावयोर्विवादो न स्यादिति वाच्यम् ; विश्वसत्त्वयोस्सम्बन्धे हि नावयोर्विवादः, त्वया सत्यस्य मया मिथ्याभूतस्य तस्याङ्गीकारात्, अधिष्ठानसत्तासम्बन्धो मिथ्या जायते जगतीति मया स्वीकारात् । प्रवर्तत इति । प्रमापयती- त्यर्थ: । चातुर्मास्यमध्यपर्वणोरिति । वैश्वदेवं वरुणप्रघासाः साक- मेधाः शुनासीरीयं चेति पर्वचतुष्टयात्मकस्य चातुर्मास्याख्यकर्मणो मध्यपर्वणोरित्यर्थः । चातुर्मास्यप्रकरणे – 'द्वयोः प्रणयन्ति तस्मात् द्वाभ्यामेति, ऊरू वा एतौ यज्ञस्य यद्वरुणप्रघासाश्च साकमेधाश्च ' इति श्रुतम् । तत्र सधर्मकं सौमिकं प्रणयनमुत प्राकृतमधर्मकमिति संशये प्राकृतस्य चोदकप्राप्तत्वेन वाक्यसार्थक्याय सौमिकं तदत्र विधीयते । अतएव तत्रोत्तरवेदेस्सत्त्वेन तत्प्राप्तौ 'न वैश्वदेवे उत्तरवेोदिमु पयन्ति न शनासीरीये' इति तत्पर्युदासस्सङ्गच्छते । तेन तयोरुत्तरवेदिभिन्ना- स्सौमिकप्रणयनधर्मा कार्या: । यत्त 'उपात्र वपन्ति' इत्युत्तरवेदेरुत्पत्ति- वाक्यम्, यच्च उत्तरवेद्याममिं निदधाति' इति तस्या विनियोगवाक्यम्, तन्मध्यमयोः पर्वणोः प्राकृतप्रणयनकाल एवोत्तरवेदिमात्रविधायकमिति प्राप्ते, प्रकृतिवच्छब्देनोपस्थितत्वात्प्राकृतमेव प्रणयनमत्रातिदेशप्रवृत्तेः पूर्व विधीयते अनूद्यते वा । ननु तत्र किं प्रयोजनम् ? नेतरयोः पर्वणोः । , 1 पवपन्ति. 29* ·