पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

452 अद्वैतसिद्धिब्याख्यायां गुरुचन्द्रिकाया - परिसङ्ख्या त्रैदोप्यापत्तेः, प्रणयनाभावेऽमयभावेन तयोर्यागानुपपत्तेश्च ; नाप्यर्थवादत्वेन स्तुतिधीः ', विध्यन्तराभावादिति चेदुच्यते - उत्तर- घेदिरूपगुणप्राप्तिः प्रयोजनम् । एतद्वाक्याभावे हि पर्वचतुष्टयेऽपि प्राकृत- प्रणयनप्राप्तया देशापेक्षायामुत्तरवदिविधानं चतुष्टयेऽपि स्यात् । एत- द्वाक्यसत्त्वे तु पर्वद्वयीयप्रणयनस्यैव विशिष्योपदेशेनोपस्थितत्वात्तत्रैवो- तरवेदिस्तदीयाभिनिधानमेव च द्वारं सिध्यति । अत इतरपर्वणोरुत्तर- वेदिपरिसङ्ख्यैव प्रयोजनामति । अथ तद्वाक्यस्य प्रथमोत्तमे मध्यमे वा पर्वणी विषय इति संशये मध्यमविषयकत्वे तत्रैवोत्तरवेदिप्राप्तेः प्रथमो- त्तमयोस्तत्पर्युदासानुपपत्तेः प्रथमोत्तमे विषयस्ततश्च तत्रैव प्राप्ताया उत्तरवेदे स्तत्रैव निषेधाद्विकल्पः । द्वाभ्यामेतीत्याद्यर्थवादस्तु लक्षणया प्रथमो- तमपर इति प्राप्तौ, लक्षणाविकल्पयोरन्याय्यत्वान्मध्यम एव तद्विषयः । ततश्च प्रथमोत्तमयोरुत्तर वेद्यप्राप्तया तयोस्तन्निषेधो नित्यानुवाद: । तत्प्रयोजनं चोपात्रवपन्ती त्या देवरुणप्रघासावान्तरप्रकरणबाधः । तद्बाधा- भावे हि तदवान्तरप्रकरणपठिताया उत्तरवेदेस्तन्मात्राङ्गत्वप्रसक्तया त्रिषु पर्वसु निषेधो नित्यानुवादस्स्यान्न द्वयोः । तद्वलाचु अवान्तरप्रकरणबा- धान्महाप्रकरणेन सर्वपर्वाङ्गत्वप्रसक्तौ मध्यमयोरुत्तरवेद्युपसंहारो युज्यते । न चैवं प्रथमोत्तमयोः पर्युदासेनावान्तरप्रकरणबाध इवोत्तरवेद्युत्पत्ति- विनियोगविध्यार्मध्यममात्रविषयत्वमपि सिध्यतीति द्वयोः प्रणयन्तीति व्यर्थमिति वाच्यम्; उत्तरवेद्याममिं निदधातीत्यनेन हि उत्तरवेदेर्विधिर्न निधानानुवादेन; निधानमात्रे तत्प्राप्तयापत्तेः । नाग्निनिधानानुवादेन, विशिष्टोद्देशासम्भवात् । नामिमात्रानुवादेन गार्हपत्यादावपि उत्तरवेद्या- पत्तेः । किन्तु अतिदेशप्रवृत्तेः पूर्वमुत्तरवेदिविशिष्टं प्राकृतनिधानमेवा- मयुद्देशेन विधीयते । उत्तरवेदिप्राप्तिमात्रं तत्फलम् । अतश्चौपदेशिक प्रणयनविध्यभावे प्रणीतामिनिधान इव कपालतापाद्यर्थाभिनिधानेडापे- 1 स्तुतिः 2 इति विषयसंशये. 3 कपाले होमार्थमग्नि. . [प्रथमः