पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] आगम बाधोद्धारः 453 चोदकप्राप्ताग्निप्रणयनव्यतिरिक्ताग्निप्रणयनविधायकत्ववत् प्रत्य- तदापत्तिः । औपदेशिकप्रणयनावधिसत्त्वे तु तस्यैव पुरस्स्फूर्तिकस्य देश।पेक्षायामातिदेशिकविधित पूर्वमुत्तरवेदिरूपदेश विधानान्न तापाद्यर्था- मि`निधाने उत्तरवेद्यापत्तिः । अत एवौपदेशिकप्रणयनविधिसत्त्वेऽपीतरपर्व- णोरातिदेशिकप्रणयने उत्तरवेदिस्स्यादित्यपास्तम् । औपदेशिकप्रणयनस्य पुरस्स्फूर्त्या तत्रैवोत्तरवेदिविधानादिति वार्तिकोक्तदूषणत्यागेन भाण्यानु- सारी पन्थाः । वार्तिकानुसारी तु– प्राकृतं सौमिकं वा प्रणयनमिति प्राप्ते, न सौमिकम्, अनुपस्थितत्वात् ; नापि प्राकृतम् तस्याहवनीयोत्पादकत्वेन आहवनीयापादानकत्वासम्भवात् । 'आहवनीयावावमी प्रणयतोऽध्व- र्युश्च प्रतिप्रस्थाता च ' इति शाखान्तरवचने प्राकृतप्रयणनोत्तरमाहव- नीयापादानकप्रणयनान्तरविधित्वावगतेः, साकमेधेऽपि बोधायनादिक ल्पसूत्रानुसारेण तादृश प्रणयनान्तरविध्यवगतेः, ताभ्यामेकवाक्यतया 'द्वयोः प्रणयन्ति' इत्यस्यापि तादृशप्रणयन विधायकत्वनिश्चयेन प्राकृतप्रण- यनार्थकत्वानुपपत्तेः । तस्मादप्राकृतमपूर्व प्रणयनमत्र विधीयमानं द्वाभ्या- मित्याद्यर्थवादान्मध्यमयोरेव तस्य चापेक्षितो देश उत्तवेदित वाक्या- भ्यामुत्पत्तिविनियोगाभ्यां विधीयत इति तयोरपि मध्यमविषयत्वमेव । एवंच प्रथमोत्तमयोस्तत्प्रतिषेषो नित्यानुवादो भाष्यमत इवावान्तर- प्रकरणबाघार्थः । याज्ञिकास्तु पशुचन्धवत् सौमिकानेव धर्माननुति - ष्ठन्ति, उत्तरवेदिपरिमाणमात्रं शम्यामात्रमौपदेशिकं कुर्वन्ति । तन्मते प्रणयन्तीति बहुवचनमपि ब्रह्महोत्रा दिसत्त्वादुपपद्यत इति सर्वमेत त्सप्तमतृतीये स्थितम् । एवंच वार्तिकोक्तिमाश्रित्याह – प्रणयनविधा- यकत्ववदिति । नेह नानेत्यादिश्रुत्या साक्षिस्वरूपे तदन्यसर्वनि- षेधेन विश्वसत्त्वयोस्सम्बन्धस्यापि निषेधाद्विश्वसत्त्वश्रुतेर्न त्रिकालनिषे- धाप्रतियोगित्वंम् तात्विकसत्त्वसम्बन्धो वा विश्वस्मिन्विषय इत्याशये- 1 तादृशार्थाग्नि. 2 वेदिरुत्तर.