पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः क्षप्राप्तव्यावहारिकसदविलक्षणत्रिकालनिषेधाप्रतियोगित्वरूपस - स्वप्रमापकत्वं प्रकृतेऽस्त्विति चेन्न; त्रैकालिकसत्त्वनिषेधकश्श्रुति- विरोधेन विश्वसत्यत्वश्रुतेः त्रैकालिकसत्त्वपरत्वाभावात् । न च वैपरीत्यमेव किं न स्यात् विनिगमकाभावादिति वाच्यम्; तात्पर्यान्यथानुपपात्तगतिसामान्यानामेव विनिगमकत्वात् । अद्वै- तश्रुतिर्हि षड्डिधतात्पर्यलिङ्गोपेता । तत्र त्रिविधं तात्पर्यलिङ्गम् - प्रामाण्यशररिघटकमर्थनिष्ठमज्ञातत्वं, अबाधितत्वं, प्रयोजन - 454 नाह – न त्रैकालिकेति । त्रैकालिको यस्सत्त्वनिषेधस्स्वसमानाधिक रणात्यन्ताभावप्रतियोगित्वं तद्बोधक नेहना नेत्यादिश्रुतिविरोधेनेत्यर्थः । तात्पर्येति । तात्पर्यग्राहकलिङ्गषट्केत्यर्थः । अन्यथानुपपत्तिश्च वक्ष्य- माणा । गतिसामान्यमद्वैताव गतिरूप कार्येण सर्वेषां वेदान्तानां समा- नत्वं, षण्णां लिङ्गानां पञ्च स्वसामग्रबिलान्निर्णीयन्ते, उपपत्तिरूप - मबाधितत्वं तु वक्ष्यमाणानुपपत्तिगतिसामान्याभ्यामिति षण्णां निर्ण- येन तात्पर्यनिश्चय इति वक्तुं लिङ्गानां तात्पर्योपयोगितां घटय- विवेकमाह - तत्र त्रिविधमिति | प्रामाण्यशरीरोत । ज्ञाते बाधिते निष्प्रयोजने वा विषये प्रमातृभिः प्रमाणं न व्याप्रियत इति याह- शविषयकज्ञानमुद्दिश्य प्रमाणव्यापारे प्रवृत्तिः, तादृशविषयकज्ञानमेव प्रमेत्युच्यते । तथाच ज्ञाताद्यर्थे दैवात्प्रमाणजन्यमपि ज्ञानं न प्रमा, प्रमाणध्वंससंयोगादिवत् । अतोऽज्ञानाबाधितसप्रयोजनार्थविषयक धरूिप- प्रमानुकूलशक्तिमत्त्वरूपे तात्पर्ये घटकत्वेनाज्ञातत्वादित्रयोपयोगः । इत्थं च ज्ञातत्वाद्येकैकलिङ्गमात्रेण यत्परेण 'यजमानः प्रस्तरः' इत्यादौ तात्पर्यमाशङ्कितम् यच्चोपपत्याद्येकैकमात्रेण विश्वं सत्यमित्यादौ तच्छशिष्यते तान्त्यैवेति बोध्यम् । अतएव " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्र- 1 उपपत्तिसत्त्व, 2 प्रमा इति-पा, , , -