पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धार: त्वेनाज्ञानं गृह्यत इत्यपि परास्तम् । तत्तत्कालत्वेन सुखादिकालस्य साक्षियोग्यत्वेऽपि सृष्टिपूर्वकालत्वप्रळयत्वादिरूपोक्त श्रुतिग्राह्यतावच्छेद- करूपेण कालस्य तद्योग्यत्वे मानाभावादिति || 9 • अश्वस्तूपरो गोमृगस्ते प्राजापत्याः' इत्यश्वमेधे पशुत्रयं विहि- तम् । तत्रैकप्रयोगत्वेन तन्त्रेणाघ्रिगुप्रैषे पठनीये अश्वस्य चतुस्त्रिंश- द्वङ्किकत्वादितरयोः प्रत्येकं षडिशतिङ्ककत्वात् पूर्वाधिकरणरीत्या सम- स्यवचने षडशीतिरेषां वय इति प्राप्तम् । तत्र 'चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्कीरश्वस्य स्वधितिस्समेति' इत्यौपदेशिकेन मन्त्रेण षडिशति- पदयुक्तस्याधिगुप्रैषान्तर्गत मन्त्रस्यातिदेशिकस्य बाघात् अश्वस्य चतुस्त्रिंश- दित्यादिमन्त्रः, इतरयोस्तु द्विपञ्चाशदनयोर्वमय इति समास इत्यपि प्राप्तम् । तत्र 'न चतुस्त्रिंशदिति ब्रूयात् षड्डूिंशतिरित्येव ब्रूयात्' इति प्रकरणे समाम्नातवाक्ये किं विधीयत इति चिन्तायाम्, न तावत्प्रति षेधः; स हि चतुस्त्रिंशत्पदमात्रस्य तद्युक्तच वा नोभयम्, विहित- निषेधेन विकल्पापत्तेः । अन्ते ऋग्लक्षणापत्ते: ऋक्प्रतिषेधे षडशीति- रिति समासस्यैव प्राप्तेषडिशतिपदयुक्ताघ्रिगुप्रैषस्याप्राप्तया तस्यापि विधाने वाक्यभेदापत्तेश्च । षड्डिशतिपदे षडशीतिसमासपदोपेतात्रिगु- लक्षणयानुवादत्वोक्तौ लक्षणादोषात्, अतो न गिरा गिरेतिवत् न चतुस्त्रिंशदिति निषेधानुवादः षडिशतिपदस्य चतुस्त्रिंशत्पदस्थानीयत्व- सिद्ध्यर्थः । षडि॒िशतिरिति ब्रूयादिति च ‘ऐरं कृत्वोद्गेयम्, इति वद्विधिः । तद्वलादेव षडिशतिपदे अश्ववङ्किसङ्ख्या लक्षणा | एवकारस्तु न विधिविरोधी, मानाभावात् । 'अत्र ह्येवावपन्ति' इत्यादौ ' तस्या तत्त्वात् षडिंशतिपदायोगव्यावृत्तिरूपस्य चतुस्त्रिंशत्पदरूपान्ययोगव्या- वृत्तिरूपस्य वा षड्विंशतिपदविधानफलस्यानुवादतया एवकारसार्थक्योप- पत्तेश्च । तस्मादश्वे ‘ षड्डि॒िशतिर्वाजिनो देवबन्धो' रित्यादिमन्त्रः, इतरयोस्तु , 461 1 • तस्यतत्त्वात् इति पा. -