पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

474 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः इति चेत्, एकविधायकत्वस्य वाक्यस्वाभाव्यस्य भङ्ग एव दोषः । अन्यथा अनेकेषु प्रमापकत्वरूपतात्पर्यभेदेन वाक्यस्यावृत्त्यापत्तेः । न हि सकृत्प्रतिसंहितं वाक्यं नानार्थान्प्रमापयितुमीष्टे 'सकृदुच्चारितश्शब्द- स्सकृदर्थं गमयती' ति व्युत्पत्तेः । किञ्च भावनायां विधिसम्भन्धस्य वाक्यान्तरण लब्धत्वाद्गुणविशिष्टभावनायां विध्यन्वये तात्पर्य वाच्यम् । तथा चैकप्रतिसन्धानविषयेण विधिपदेन नानागुणेषु विध्यन्वयधीर्नसम्भ- वति । न हि घटः पटो रूपीत्यत्र सकृत्प्रतिसंहितरूपिपदेनोभयत्र रूप्यन्वयः; 'सकृदुच्चरितश्शब्दस्सकृदर्थं गमयती' ति व्युत्पत्तेः । भावनायास्तु क्रियास्वाभाव्येन सकृत्प्रतिसंहिताख्यातोपस्थिताया अपि नानागुणान्वयार्हत्वात् गुणान्वयानुरोधेन प्रधानावृत्तेरन्याय्यत्वाच्च । न चाग्नेय इत्यादौ देवताविशिष्टद्रव्यस्य तद्धितेनोक्तत्वादेकस्यैव तस्य प्राप्तकर्मभावनानुवादेन विधिसम्भव इति वाच्यम्; कारकत्वेनोपस्थित- देवताया हि भावनायामेवान्वयो, न तु द्रव्ये, कारकत्वेनानुपस्थि- तानामेव वृत्तिशब्दैकदेशार्थानां ' अश्वाभिधानीम्' इत्यादौ मिथोन्वयात् । अथैवमनुवादत्वे वाक्यं व्यर्थमिति चेन्न; एकेन पौर्णमासीपदेनामा- वास्यापदेन च आग्नेयादित्रिकयोरुक्त्या साहित्यप्रतीत्या समुदायसिद्धौ तद्गतद्वित्वस्यैव दर्शपूर्णमासाभ्यामित्याध कारवाक्ये बोधादामेयादि षण्णा- मेव फलसम्बन्धस्य विद्वद्वाक्यरूपानुवादप्रयोजनत्वात् । यथाहि विद्व- द्वाक्ये पौर्णमासीमित्याद्येकवचनं पौर्णमास्यादिकालयोगित्वरूपसामान्य- गत' स्यैकत्वस्य पाशाधिकरणन्यायेन बोधकं, तथा अधिकारवाक्ये द्विव चनमपि समुदायान्तर्गताग्नेयादिरूपनामार्थैकदेशसमुदायद्वयगतद्वित्वस्य बोधकम् । यत्तु द्विवचनस्य बहुत्वे लक्षणा, तस्यां च स्वशक्यद्वित्वा- श्रयस'मुदायघटकामेयादिपर्याप्तत्वरूपसम्बन्धरूपायां तात्पर्यग्राहकं विद्व- े 2 आग्नेया- 1 1 नानागुणान्वयानुरोधेन. दियागानामेव. 3 सामान्यावगत. 4 ससुदितामे.