पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः - सुखस्यापि बैषयिकस्यैव ग्रहणेन तनिषेधाय ब्रह्मरूपसुखानुवादा- योगात् । एतच्च सर्वमुक्तं विवरणे – निष्प्रपञ्चास्थूलादिवाक्या- नुसारेण 'इदं सर्व यदयमात्मा' इत्यादीनि निषेधसमर्पकत्वे- नैक्यतां प्रतिपद्यन्ते । सुषुप्तौ निष्प्रपञ्चतायां पुरुषार्थत्वदर्शनात् ' वैषयिकस्येति। न च दुःखपदवाच्यस्येव सुखपदवाच्यस्यापि सर्वस्य ग्रहणौचित्येन आत्मसुखस्यापि निषेध्यतेति वाच्यम्; विषयसम्ब- न्धजन्यवृत्ति विशेषावच्छिन्नात्मनस्सुखपद वाच्यत्वेन तस्य सर्वस्य निषे- ध्यत्वेऽपि तत्पदलक्ष्यसुखस्वरूपनिषेधासम्भवात् । इदं सर्वं यदयमात्मे - त्यादीनीति | नेतिनेतीत्यात्मेत्यादौ निष्प्रपञ्चात्मबोधार्थमिदं सर्वमित्या- दिना सप्रपञ्चात्मानुवाद इत्यर्थः । इदं सर्वमित्यादौ बाधायामपि सामा- नाधिकरण्यसम्भवादाह -- आदीति । तेन ' मयि सर्वं प्रतिष्ठितं, सच्च त्यच्चाभवत्' इत्यादिसङ्ग्रहः । एैक्यतां एकवाक्यतां । पुरुषार्थत्वदर्श - नादिति | सुषुप्तौ भासमानं साक्षिसुखं यद्यपि जाग्रतस्वयोरपि भाति, मा न भूवं हि भूयासमिति परप्रेमदर्शनादन्येच्छानधीनेच्छारूपस्य परप्रेम्णः सुखरूपत्वेनाभासमाने आत्मन्यसम्भवात् । भासत एव परमप्रेमास्पदत्व.. लक्षणं सुखं जाग्रदादाविति विवरणोक्तेश्च; तथापि कष्टं कर्मेति लोकानुभवात् जाग्रत्स्वप्नयोस्सदा स्थूलसूक्ष्मोपाधिक्रियाजन्य दुःख- सत्त्वात्, विषयसुखानामपि- , न तदस्ति सुखं लोके यन्न दुःखकरं भवेत् । तदसम्प्राप्तिविच्छेदक्षयेष्वसुख कृद्यतः || 485 इति वार्तिकोक्तरीत्या तदप्राप्तयादिप्रयुक्तदुःखमूलत्वाच्च सुषुप्तचव- च्छिन्नसुखं जाग्रदादिसुखापेक्षयाऽतिशयितम् | लोकानां च तथाऽ- ननुभवो 1 विवेकाभावात् नरकसुखासक्तसूकरादिवत् । तथाच दुःख- 4 1 विषयाव. 3 क्षयेऽप्यसुख. 4 अनुभवः ." 2 जनक.