पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] आगमबाधोद्धारः 487 देकाकी न रमते' इति श्रुतेस्प्रपञ्चतापि पुरुषार्थः, न; तस्या दुःखसाधनत्वेन पुरुषार्थत्वायोगात्, कर्मकाण्डवदस्याश्रुतेरवि- वकिपुरुषपरत्वाच्च । ननु ' पृथगात्मानं प्रेरितारं च मत्वा जुष्ट- स्ततस्तेनामृतत्वमेति' इति भेदज्ञानस्य मोक्षहेतुत्वश्रवणात्कथं न सप्रपञ्चता पुरुषार्थ इति चेन्न; तत्वमतेः पूर्व ममापि प्रेरकपृथक्त दृष्टेस्सगुणब्रह्मज्ञानवत् प्रेरकत्वेन ब्रह्मज्ञानस्यापि पर म्परयोपकारकत्वात्, 'एकघैवानुद्रष्टव्यम्' इत्यादिवाक्यस्वार- यद्यपि द्वितीयपदेनानात्ममात्रमुक्तम् ; तथापि जाग्रत्स्वनरूपभयहेत्वभाव- मात्रेण सौषुप्तसुखस्य जाग्रदादिसुखापेक्षया अतिशय: । मुक्तिसुखस्य तु भयहेतुसामान्याभावत्वेनावस्थात्रयसुखापेक्षयाऽतिशय इति भावः । सप्रपञ्चतेति । जाग्रत्स्वप्नसुखमित्यर्थः । पुरुषार्थ: सुषुप्तिसुखतुल्य- पुरुषार्थः । तस्या जाग्रत्स्वप्नसुखम्य | दुःखसाधनत्वेनेति । दुःखो- पधायक क्रियाविशिष्टत्वेन, विषयाप्राप्तयादिप्रयुक्तकालान्तरीण' दुःखस्व- रूपयोग्यत्वेन चेत्यर्थः । पुरुषार्थत्वायोगात् सौषुप्तसुखतुल्यपुरुषार्थला- योगात् । अविवेकीति येषां विवेकाभावाज्जाग्रत्स्व प्रसुखे उक्तदुःखसा- तेषां तत्र बलवद्वेषसाम्रयभावादिच्छायां सत्यां तत्सम्पा- दकविषयाभावादेका कित्वे रत्यभाव'स्यानुवादिका श्रुतिर्न तु तावता तत्सुखस्य सौषुप्तसुख तुल्यत्वं तच्छुत्या लभ्यत इति भावः । न मतेरिति । प्रेरकत्वेन पृथक्तेन च मत्वा मुच्यत इति नोक्तश्रुत्यर्थः। किंतु तत्वमतेः पूर्वं प्रेरकत्वेन पृथक्तेन च स्थितमीशमात्मानमखण्डं ज्ञात्वा मुच्यत इत्यर्थ इति भावः । पृथक्तुप्रेरकत्वाभ्यां मत्वेत्यर्थक- त्वेऽपि न क्षतिरित्याशयेनाह - सगुणेति । दहराकाशादिरूपेत्यर्थः ! प्रेरकत्वादिना द्विधादिदर्शन मकधादर्शनोक्तया व्यावर्तितमित्याह --- एकति | विषयरूपो ज्ञाननिष्ठप्रकारो धाप्रत्ययार्थः । एकपदमखण्ड- 1 कालान्तरीय. 2 देका कित्वाक्तयभाव. ·