पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

491 प्रत्यक्षप्रासघटादिसत्त्वरूपनिषेध्यमादाय निराकाङ्क्षा सती न प्रत्यक्षाप्राप्तधर्माधर्मादिसत्यत्वबोधिकां 'विश्वं सत्यम्' इत्यादि- श्रुतिमपि निषेध्य समर्पणायापेक्षितुमर्हति । यत्र तु मानान्तरेण निषेभ्यस्याप्राप्तिस्तत्र निषेध्यसमर्पणाय श्रुत्यन्तरमपेक्षत एव । यथा षोडशिग्रहणाग्रहणयोः मानान्तरेण निषेध्योपस्थितावपि वाक्यापेक्षणे अग्नीषोमीयहिंसाया अपि निषिद्धत्वेनाधर्मत्वं स्यात् इति चेत्, मैवम् ; अग्नीषोमीयवाक्यस्य निषेधविषयन्यूनविषय- त्वेनानन्यशेषतया स्वार्थतात्पर्यवत्वेन च न निषेध्यसमर्पण- न प्रत्यक्षाप्राप्तेति । यद्यपि धर्माधर्मस्वर्गनरकादेर्न प्रत्यक्षादिना प्राप्ति- रिति दूष्यग्रन्थे उक्तम्, नरकादेरित्यस्य नरकादिसत्यत्वस्यत्यर्थ इति तदीयैर्व्याख्यातम् ; तथाच प्रत्यक्षादीत्यादिना धर्मादिसत्यत्वस्यानुमाना- दिनाप्यप्राप्तिरिति' पराभिप्रेतम् । तथापि धर्मादिकं, सत्, वेदविहितत्वा- दित, 2 इत्यनुमानेन मन्मते ' सर्वप्रत्ययवेद्ये' इत्यादिमण्डनोक्तथा धर्मादिग्राहकमानेन च धर्मादिसत्यत्वं गृह्यत इति आदिपदं भ्रान्त्यैव परेणोक्तमित्याशयेन तद्विहाय प्रत्यक्षाप्राप्तेत्येव धृतम् । यद्यपि एवं धर्मादे रनुमानादिसिद्धं सत्त्वमिव घटादेः प्रत्यक्षसिद्धं सत्त्वमपि विश्वं सत्यमित्या- दिश्रुतिर्नेतीत्यादिश्रुत्या निषेधायानुवदतीति नोत्सर्गापवादन्यायावकाश इति स्पष्टम् । न चानुमानाकुशलं प्रति धर्मादिसत्त्वबोधकत्वाद्विश्वसत्त्व- श्रुतिर्नानुवाद इति वाच्यम्; घर्मिग्राहकमानेनैव धर्मादिसत्यतासिद्धेः । न हि धर्मादिप्रमाता तत्सत्यत्वं व्यावहारिकं न प्रमिणोतीति सम्भवति । तथा सति धर्मादिग्राहकशास्त्रादिमानस्य व्यावहारिकप्रामाण्यभङ्गापत्तेः । यत्र त्वर्थक्रियादिसंवादाभावः तत्रानुमानाकौशलादियुक्तं पुरुषं बोध- यन्ती मिथ्यात्वादिश्रुतिरनुवाद इत्याचार्यैरुक्तम् ; तथापि परं लालयन् प्रकारान्तरेण समाधत्ते – मैवम् ; अग्नीषोमीयेति । न्यूनविषयत्वेति । 1 दिनाप्यर्थाप्तिति. 2 वेदविहितत्वात्. 3 नित्यत्वं. परिच्छेदः] आगमबाधोद्धारः 32*