पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

494 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः तत् प्रातिभासिकं इदं तु व्यावहारिकमिति । ननु मिथ्यात्व- श्रुतेर्लक्षणया अखण्डचिन्मात्रपरत्वेन सत्वबोधनाविरोधित्वमेव, न; अखण्डार्थबोधस्य द्वितीयाभावबुद्धिद्वारकत्वेन जगत्सत्यत्व- विरोधित्वात् । न च प्रपञ्चसत्यत्वश्रुतेरप्रामाण्यप्रसङ्गः; अत- त्वावेदकत्वस्यावान्तरतात्पर्यमादायेष्टत्वात् । परमतात्पर्येण तु तत्त्वावेदकत्वं सर्वश्रुतीनामपि समम् । प्रातिभासिकव्यावृत्तस्य व्यावहारिकस्य तद्वति तत्प्रकारकत्वादिरूपस्य निराकर्तुमशक्य- त्वादासां व्यावहारिकं प्रामाण्यमव्याहतमेव । 'असद्वा इदमग्र आसीत्' इत्यादिश्रुत्यनुरोधेनापि 'तत्सत्यम्' इत्यादिश्रुति ने ब्रह्माण व्यावहारिकसत्वपरा; ब्रह्मणो व्यवहारातीतत्वात् । तस्यापरमार्थत्वे च निरधिष्ठानतया शून्यवादापत्तेः, किञ्चि- तत्वमगृहीत्वा च बाधानुपपत्तेः । अतएव सत्वश्रुतिविरोधेन ण्डार्थघीकारणं अधिकरणे प्रपञ्चाभावसंसर्गबोधं प्रति जनकत्वात् प्रपञ्च- सत्यताधीविरोधित्वं स्पष्टम् । द्वितीयाया अपि द्वितीयाभावोपलक्षिता- स्खण्डब्रह्मरूपव्यावृत्ताकारत्वेन तद्विरोधित्वमुक्तं व्यावृत्ताकारता द्वेधेत्यादि- ग्रन्थेनेत्याशयेनाह – न अस्खण्डेति । द्वारकत्वेनेति । आद्यायाः श्रुतेः द्वितीयाभाववत्त्वेन बुद्धाबवान्तरतात्पर्यम् । द्वितीयायास्तु द्वितीयाभावो- पस्थितिद्वारा तदुपलक्षित' बोधपरत्वमिति भावः । अवान्तरतात्पर्यमिति । उक्तप्रवृत्त्यादावित्यादिः । तत्प्रकारकत्वादीत्यादिना व्यवहारकाला- बाध्यविषयकत्वादेस्सग्रहः । अगृहीत्वा चेति । चकाराद्वाघानुपपत्ति- मात्रस्य हेत्वन्तरस्य समुच्चयः । तेनाधिकसत्ताकवस्तुज्ञानस्यैव बाधकत्व- पक्षे तात्त्विक विषयज्ञानं विना न व्यावहारिकप्रपञ्चबाघ इति तात्त्विकं ब्रह्मावश्यकम् । बाध्यान्यूनसत्ताकविषयकज्ञानस्यैव बाधकत्वपक्षे तु साक्षि- रूपं ब्रह्म न बाध्यम्, साक्षिणो बाघानुपपत्तेः । तद्वाघे साक्ष्यन्तर- 1 बाध.