पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] 499 इति ब्रह्मसाधारण्यान्निस्तत्वतायां प्राप्तायां सूत्रेण परिहारः । सतो ब्रह्मणो नाभावः न शून्यत्वं, उपलब्धेः सत्त्वेन प्रमाणा- त्प्रतीतेः । तथाच किश्चित्परमार्थसदवश्यं शून्यवादिनापि स्वीकार्यम् । अन्यथा बाधस्य निरवधिकत्व प्रसङ्गादिति सूत्रार्थः । स च न प्रपञ्चमिथ्यात्वविरोधी । तथाचोक्तम्- बाधितोपद्रवो ' मानैर्व्यावहारिकमानता । मानानां तात्विकं किञ्चिद्वस्तु नाश्रित्य दुर्भणा || सम्बन्धात्, न सदसत् विरोधात्, न चानुभयतत्त्वकम् तात्त्वि- कयोः सदसद्भेदयोरभाववत् सदसद्भिन्नत्वाभ्यां निर्वक्तुमशक्यत्वादिति बोध्यम् । विमतमिति सत्त्वेन प्रतीत्यर्हमित्यर्थः । तेन तुच्छे न बाघासिद्धी । चरमसाध्यद्वये तु धीविषयत्वमात्रेण पक्षता, तुच्छेऽपि हेतुसाध्ययोस्सत्त्वात् । ब्रह्मसाधारण्यादिति । पक्षतावच्छेदकावच्छेदे- नानुमितेरुद्देश्यत्वादित्यादिः । न शून्यत्वमिति | ब्रह्म न बाध्यं बाधा- योग्यत्वादित्यत्र तात्पर्यम् । निरवधिकत्वेति । बाध्याधिक सत्ताकवस्तु- शून्यत्वेत्यर्थः । न च तदनुपपन्नमित्याशयेनाह- तथाचोक्तमिति । शास्त्र- दर्पण इति शेषः । मानैः वस्तूनामपह्नवो बाधितः, तात्त्विकत्वं सिद्ध्यति । यदि तात्त्विकं न स्यात्तदा बाधशून्यप्रमेयं न स्यात्, शुक्तिरूप्यादिवत्, बाघशून्यत्वं चाग्रे व्यावहारिकेत्यादिना उपपादनयिमिति भावः । अथवा मानानामबाधितविषयकत्वरूपप्रामाण्यस्यौत्सर्गिकत्वात् वस्तूनामपदवो बाघो बाधितो न सम्भवति । ननु बाधकप्रमाणादौत्सर्गिकस्यापवादोऽस्तु, तत्राह – व्यावहारिकेति । बाधित विषयकेत्यर्थः । अनाश्रित्य बाघ कविषयत्वेनास्वकृित्य, । यद्यद्बाधकज्ञानं तद्बाध्यापेक्षया ऽधिकसत्ताक- विषयं, अन्यथा समबलत्वेन बाध्यबाधकत्वानुपपत्तेः । अतस्तात्त्विक- विषयकधीरेव व्यावहारिकमानबाधिकेति भावः । अथवा अनाश्रित्य 1 बाध तापन्हवो. 2 तदनुपपनमिति. - आगमबाधोद्धारः -