पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः त्वेनानित्यत्वस्य नभसो नैल्येन स्पर्शवत्वस्य चापत्तेः ।। 'गौरोऽहं' 'नलिं नभ' इत्यादिप्रतीतावपि त्रिचतुरकक्ष्या- स्वबाधात्, यौक्तिकबाधस्य त्वन्मते प्रकृतेऽपि भावादिति चेन; यादृश्या बुद्धया तव नमोनैल्यादिघीव्यावृत्तया घटादौ सत्त्व | सिद्धिः, ताम्बुद्धिविषयत्वस्यैव साधकत्वे तन्त्रत्वात् । अत एव 'लोकप्रसिद्धिस्तन्त्रं' इतीष्टसिद्धयुक्तमप्युक्ताभिप्रायेण सम्यगेव । एवं त्रिचतुरकक्ष्यास्वबाधिता वादिप्रतिवादिप्राश्निकादीनां सत्व- बुद्धिस्तन्त्रमित्युपपन्नमेव । गुञ्जापुञ्जस्य वह्नित्वे आत्मनों गौरत्वे नभसो नीलत्वे च ताहम्बुद्धिविषयत्वस्य तवाप्यसम्प्रतिपत्तेः । अन्यथा तेषामपि तत्र सम्वसिद्धिप्रसङ्गात् । अथ - यादृश्या शब्दे क्लप्तदोषरहितया बुद्धया तव ब्रह्मणि सत्त्वसिद्धिः, तादृश्या प्रत्यक्ष क्लप्तदोषरहितया मम जगति सन्त्वसिद्धिरस्तु, साधक- तुल्यत्वादिति – चेन; ब्रह्मसम्वबुद्धिवजगत्सवबुद्धेरबाधितंत्वा- भावात्, त्रिकालाबाध्यत्वरूपस्य सत्वस्य प्रत्यक्षाविषयताया उक्तत्वाच्च । न च बुद्धिविषयत्वस्य तन्त्रत्वे वह्नित्वेनाज्ञातस्य वह्नेरदाहकत्वप्रसङ्गः, अमृतत्वेन ज्ञातस्य च विषस्य संजीव- 4 ताहबुद्धीति । व्यावहारिकसत्त्वेन धीरेव तादृशीति भावः । उक्तमेत- त्खण्डने । कथं पुनरसतः कारणत्वमवसेयम् ? प्राक्सत्त्वनियमानभ्यु- पगमादसत्वस्य सर्वासत्स्वविशेषादिति चेन्न; इदमस्मान्नियतप्राक्स- दिति बुद्धया विशेषात् । न चातिप्रसङ्गः ; यादृश्या त्रिचतुरकक्षा बाधा- नवबोधविश्रान्तया वस्तुसतानिश्चयस्ते, तादृश्यैव कारणतानिश्चयो ममापीति । आत्मनो गौरत्व इति । पारलौकिकफलोद्देशेन वैदिक- कर्मानुष्ठानायापोक्षतेन देहात्मनोर्भेद निश्चयेन आत्मगौरत्वादे र्व्यवहार- 2 व्यवहारकाल इत्यारभ्य न तु तद्धीरित्यन्तो ग्रन्थः -क पुस्तक न दृश्यते. 1 कक्ष्या.