पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः नियमादिति वाच्यम् ; दृश्यत्ववन्मिथ्यात्वस्यापि व्यावहारिक - ; त्वेन समानसत्ताकत्वस्येष्टत्वात्, समानसत्ताकत्वनियमासिद्धेच, धूलीपटले धूमभ्रमादपि वड्यनुमितिप्रमादर्शनात्, गन्धव्याप्य - पृथिवीत्वप्रमातोऽपि गन्धप्रागभावावच्छिन्ने घटे पक्षे बाधा- स्फूर्तिदशायामनुमितिभ्रमदर्शनाच्च । मिथ्यात्वस्य मिथ्यात्वेऽपि तत्त्वावेद कश्रुतिवेद्यत्वोपपत्ति: ; सत्त्वेन सत इव मिथ्यात्वेन च मिथ्याभूतस्यापि प्रमाणगम्यत्वाविरोधात्, एकांशे तत्त्वा- वेदकत्वाभावेऽप्यपरांशे तत्त्वावेदकत्वोपपत्तेः । ननु व्यावहारि- व्यावहारिकसत्त्वेनत्यर्थः । प्रमाणेति । व्यावहारिकप्रमाणेत्यर्थः । द्वितीये आह -- एकांश इति । मिथ्यात्वांश इत्यर्थः । अशान्तर इति । मिथ्यात्वघटकात्यन्ताभावस्य तात्त्विकत्वे तदंशे तत्त्वावेदकत्वम् तस्य व्यावहारिकत्वे ' तु परमतात्पर्यविषयाद्वैतब्रह्मांशे तदिति भावः ॥ .: यत्तु - मिथ्यात्वेन मिथ्यात्वबोषकत्वं श्रुतेर्न युक्तम् ब्रह्मण इव मिथ्यात्वस्यापि तात्त्विकस्यैव श्रुत्या बोधनस्य युक्तत्वात् मिथ्या- बबाघ कवाक्ये मिथ्यात्वेन मिथ्यात्वबोधकपदाभावाच्च' इति, तन्मुख- मस्तीत्युक्तम् ; सत्यं ज्ञानमित्यादिश्रुतिगतसत्यादिपदेन बाधाभावेन च ब्रह्मणः सत्यत्वसिद्धावपि मिथ्यात्वस्य तदसम्भवात् । नेह नानेत्यादि- श्रुत्या मिथ्यात्वादिसाधारणसर्बदृश्यमिथ्यात्वबोधनात् । यदपि ब्रह्म- ज्ञानान्याबाध्यत्वं न साधकत्वे प्रयोजकम्; किंत्वबाध्यत्वम्, लाघ- बात्, ब्रह्मणो वृत्त्यविषयत्वपक्षे जगतोऽपि ब्रह्मज्ञानेतरबाध्यत्वाच्च, शुक्तिज्ञानस्यापि सद्रपब्रह्मविषयकत्वेन शुक्तिरूप्येऽपि ब्रह्मज्ञानान्या बाध्यत्वसत्त्वाच्चेति, तदपि तथा ; बाध्यत्वं हि ज्ञानजन्याविद्याध्वंस- जन्यध्वंसप्रतियोगित्वादिरूपं 'सविलासाज्ञाननिवृत्तिर्बाध' इति विव- 1 व्यावहारिकत्वं ख 6 2 'ज्ञानान्य-ख. -