पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् णायामविरोधेन व्याख्यास्यन्ते । तस्मात्पक्षादिसर्वमिथ्यात्व- साधनेsपि न व्याहतिः ॥ इत्यद्वैतसिद्धौ असतः साधकत्वोपपत्तिः ॥ 11 अभासतः साधकत्वाभावे बाधकनिरूपणम् ननु सत्त्वापेक्षया तुच्छविलक्षणत्वादर्गौरव करत्वेन साध- कत्वे कथं तन्त्रत्वमिति चेन; त्रिकालबाधविरहरूपस्य सम्वस्य लघुत्वाभावात्, जात्यादिरूपस्य तस्य मिथ्यात्वाविरोधित्वात्, उभयसिद्धे सद्विविक्ते साधकत्वदर्शनेन पारमार्थिकसत्त्वस्य साधकत्वाप्रयोजकत्वाञ्च । तथाहि — प्रतिबिम्बे बिम्बसाधकत्वं तावदस्ति । तस्य बिम्बात्मना सत्त्वेऽपि प्रतिबिम्बाकारणा- मानसिद्धा, तादृशत्वेनैव सेति कचिद्व्यावहारिकादपि वैदिककर्मण: प्रातीतिकः स्वाप्नविषयः तस्माच्च व्यावहारिकमित्याशयेनोपसंहरति --- तस्मादिति ॥ तुर्केः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्त खण्डानां साधकत्वमसत्यपि ॥ इत्यसतर साधकत्वोपपत्तिः ॥ - अथासतः साधकत्वाभावे बाधकनिरूपणम् बिम्बसाधकत्वमिति । मुखप्रतिबिम्बम् मुखसन्निधिपूर्वकम्, .9 ." , मुखप्रतिबिम्बत्वात् यद्यस्य प्रतिबिम्बं तत्तथा यथा सम्प्रतिपन्नमित्यादि- रीतिः । प्रतिबिम्बस्वरूपम्य मिथ्याभूतम्योत्पत्तिमते स्पष्टमसतस्साघ- कत्वम् । मुखादिबिम्बमेव दर्पणाद्यपाधिसम्बन्धेन मिथ्याभूतेन विशिष्टं प्रतिबिम्बमिति मते स्वरूपतो मिथ्यात्वस्य तत्र परान्प्रति वक्तुम- शक्यत्वेऽप्युक्तविशिष्टरूपेण मिथ्यात्वमित्याशयेनाह - तस्येति ।