पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः च मरणहेतुत्वम् । ननु तत्र शव भयमुत्पाद्य धातु- व्याकुलतामुत्पादयतीति सैत्र मरणहेतुः, न तु शङ्कितं विषमपि ; एवं सवितृसुषिरमायाकल्पित गजादीनामपि ज्ञानमेव तचदर्थ- क्रियाकारि, न त्वर्थोsपि, तथा च सर्वत्रोदाहृतस्थलेषु ज्ञानमेव हेतुः, तच्च स्वरूपतस्सत्यमेव, अन्वयव्यतिरेकावपि ज्ञानस्यैव कारणतां ग्राहयतः, न हि सन्निहितं सर्पमजानानो बिभेति । न चार्थानवच्छिन्नस्य ज्ञानस्य हेतुत्वेऽतिप्रसङ्गादर्थावच्छिन्नमेव ज्ञानं हेतुः, तथाचार्थोऽपि हेतुरेवेति वाच्यम्; अर्थावच्छिमस्य ज्ञानस्य हेतुत्वेऽप्यवच्छेदकस्यार्थस्य ताटस्थ्येनाहेतुत्वोपपत्तेः, घटावच्छिन्नस्य तदत्यन्ताभाव तसादेर्घटदेशकालभित्रदेशका - लादित्वेऽव्यवच्छेदकस्य घटस्य तदभाववत्, घटेच्छाब्रह्मज्ञानयो- र्घटज्ञान वेदान्तसाध्यत्वेऽपि घटब्रह्मणोस्तदभाववत्, घटप्राग- भावस्य घटं प्रति जनकत्वेऽपि घटस्याजनकत्ववत्, विशेषादर्श - नस्य भ्रमं प्रति जनकत्वेऽपि विशेषदर्शनस्य तदभाववत्, विहि- ताकरणस्य प्रत्यवायजनकत्वेऽपि विहितकरणस्य तदभाव वत्, स्वर्गकामनाया यागजनकत्वेऽपि स्वर्गस्य तदजनकत्ववत्, अतीतादिस्मृत्यादेर्दुःखादिजनकत्वेऽप्यतीतादेस्तदजनकत्ववत्, असद्विषयकपरोक्षज्ञानस्य तद्वयवहारहेतुत्वेऽध्यसतस्तदभाववत्, चिकीर्षितघटबुद्धेर्घटहेतुत्वेऽपि घटस्य तदहेतुत्ववत्, ब्रह्मज्ञानस्य तदज्ञाननिवर्तकत्वेऽप्युदासीनस्वभावस्य ब्रह्मणस्तदभाववत्, ब्र- माज्ञानस्य जगत्परिणामिकारणत्वेऽपि ब्रह्मणस्तदभाववच्च । न च तथापि मिथ्यार्थे ज्ञानव्यावर्तकताऽस्तीत्यसतोऽपि हेतुत्व- मिति वाच्यम् । नहि व्यावृत्तधीहेतुत्वं व्यावर्तकत्वम्, किंतु शेष्येत्यर्थः। अवच्छेदकस्येत्यादि । अवच्छेदकस्योपाधेः। अवाच्छमस्य