पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायमद्वैतसिद्धौ 16 [प्रथमः ." चेत्, अत्रोच्यते – यदुक्तं ताटस्थ्यलक्षणमुपलक्षणत्वमेव सर्वत्रा- वच्छेद (क)स्येति, तत्र, विशेषणत्वे सम्भवत्युपलक्षणत्वायोगात् । तन्न ; नानाविधत्वेऽपि हि प्रतिबिम्बं व्याप्यवृत्त्येव दृष्टम् । दीर्घत्वादिघीस्तु वर्णेषु न ध्वनिद्वारा, साक्षात्सम्बन्धेन वर्णे तत्प्रत्ययात् परम्परया तद्धी- कारणत्वेन गौरवं च । किञ्च परोक्ष वर्णज्ञानं ध्वनिविषयकत्वानिय- मात् साक्षाद्वर्णे दीर्घत्वप्रकारकम् तत्र ध्वनिभा सकसामंत्री कल्पने गौरवात् । वस्तुगत्या दीर्घ ध्वन्यभिव्यक्तस्य दीर्घतारूपत्वे तादृशस्या- कारादेईस्वत्व मारोपितं वाच्यम्, तत्र च न विनिगमकम्; ह्रस्वध्वन्य- भिव्यक्तस्वरूपं ह्रस्वतारूपं दीर्घत्वं त्वारोपितमित्यस्यापि वक्तुं शक्य- त्वात् । न च इस्वदीर्घध्वन्यभिव्यक्तम कारादिद्वयमिति वाच्यम्; एकैका एवाकारादिव्यक्तय इति मीमांसकमते तदसम्भवागौरवाच । दण्डाभासादेश्य न घटादिहेतुत्वापत्तिः; घटादिहेतुता हि नाभास- साधारणेन दण्डत्वादिना, किंतु तद्व्या वृत्तदण्डत्वादिजात्यन्तरेण । अथवा व्यावहारिकदण्डादिमात्रवृत्तितादात्म्याना मखण्डान्यतमत्व विशेषरूपेण का- रणतावच्छेदकताघटकसम्बन्धत्वात् कपालसंयोगादिगंतजातिविशेषस्य दण्डाभास।दिस्थलीयकपालसंयोगादौ विरहाद्वा न दोषः । यदि हि जाति- विवरणायुक्तरीत्या सत्सामान्यरूपा, यदि वा मूलाविद्यैव उभयचापि दण्डादिव्यक्तिविशेषमात्रे दण्डत्वादि 'मत्त्वात्तव्यक्तिविशेषगततादात्म्या- नामन्यतमत्वेनैव सम्बन्धत्वं वाच्यम् । तथा (च) प्रातीतिकव्यावृत्ततादा- त्म्यानामेबान्यतमत्वेन कारणतावच्छेदकघटकतासम्बन्धत्वान्न दोषः । वस्तुतो दण्डाभासादौ दण्डत्वादेस्सद्रूपाविद्याभ्यामन्यत्वेनाभ्युपगम्य- मानस्य सत्त्वे मानाभावः; प्रातीतिके व्यावहारिकतादात्म्याध्यासस्य तत्त्वप्रदीपिकादावुक्तत्वात् दण्डाद्यर्थप्रवृत्तेरुपपन्नत्वात् || 1 परोक्त. 2 व्यक्तत्वस्य. 8 मत्वं यद्वयक्ति. 2