पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

24 [प्रथमः हेतुतत्त्ववर्भूितसम्वासन्त्वकथा वृथा " ॥ इति । "अन्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः । नान्तर्भावितसत्त्वं चेत्कारणं तदसत्ततः " ॥ इति च सव्याख्यायामद्वैतसिद्धौ न चैवम्- “अन्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः । नान्तर्भावितसत्त्वं चेदधिष्ठानमसत्ततः " ॥ हेतुतत्वं हेतुत्वं तस्मात् बहिर्भूतं तदघटकमित्यर्थः । तुच्छस्य व्याप- कत्वासम्भवात् कारणताग्राहकदेशकालान्वयव्यतिरेकषी विषयत्वाभावाच सत्त्वं न कारणताशरीरे निवेश्यम् । तथाच सत्त्वस्येवासत्त्वस्य कथा वृथेति भावः । अथवा हेतोस्तत्वमसाधारणधर्मः तद्बहिर्भूतं तद्भिन्नं सत्स्वरूपत्वमसत्स्वरूपत्वं चेत्यर्थः । तुच्छस्वरूपस्येवा खण्ड सद्रूपस्यापि कारणताग्राहकप्रमाणविषयत्वा नङ्गकारान्न कारणत्वामति भावः । यदि कारणताश्रयस्थ सत्तासम्बन्धोऽपेक्षते, तदा सोऽस्त्येव कल्पितः कल्पि- तेऽपि । परंतु स नापेक्षत' इति वस्तुगतिरित्याशयेन कथा वृथेत्युक्तम् । कारणस्य सत्तानियमे साधका भावमुक्ता बाधकमाह - अन्तर्भाविते त्यादि । यद्यन्तर्भावितसत्त्वं सत्ताविशिष्टं सत्ता तदाश्रयश्चोभयं यदि कारणताश्रयः, तदा ततस्तादृशाभ्युपगमादेव असत्सत्तानाश्रयोअप कार- णमिति सिद्धम् । न हि सत्तायां सत्तान्तरमस्ति, न वा सैव सत्ता | तस्यां सत्तान्तराभ्युपगमे तस्यापि स्वप्रत्यक्षादिकारणत्वनिर्वाहाय सत्ता- न्तरं वाच्यमित्यनवस्था नानासत्ताभ्युपगमात् । सत्ताकारानुगतबुद्धि- लहने घटादिस्वरूपसत्तथैव निर्वाहो जातिमात्राय जलाञ्जलिश्च तब - 1 न कारणशरीरे निवेश्यते सत्वमिवेति भावः - क. मिति भावः - ग. 2 स्वरूपस्यापि 3 नापेक्षित - क. ग. - न कारणशरीरे निवेश्य- 4 निर्वाहे-ग.