पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेद:] असतः साधकत्वाभावे बाधकनिरूपणम् 25 इति तवापि समानमिति – वाच्यम्; ममाधिष्ठाने स्वरूपत एव सत्ताङ्गीकारः, तव तु कारणे स्वरूपातिरिक्तसत्ताङ्गीकार इति विशेषात् । यत्तु अर्थो न ज्ञानस्य जनकतायामवच्छेदकोऽपि ; मानाभावात् । न चातिप्रसङ्गः; विषयावच्छेदकमनपेक्ष्यैव सर्पज्ञानस्यासर्पज्ञानाव्यावृत्तिसिद्धेः । तथाहि सर्पज्ञानस्यासर्प- ज्ञानाव्यावृत्तिर्व्यावर्तकाधीना । न च विषयस्तत्सम्बन्धो वा व्यावर्तकः; स्वरूपातिरिक्तद्विष्ठसम्बन्धस्याभावात् असम्बन्धस्य चाव्यावर्तकत्वात् । अथ सम्बन्धान्तरमन्तरेण विशिष्टव्यवहार- स्यात् । यदि च नान्तर्भावितसत्त्वं कारणताश्रयः सत्तोपलाक्षत कार- णता, तदाऽपि ततस्तदभ्युपगमादेव सत्ताशून्यातीततादिदशायामपि दण्डादौ कारणता स्यादित्यसत्कारणत्वं सिद्धमेव । अथ कारणताश्रय- कोटौ सत्ताया न विशेषणतयोपलक्षणतया वाऽन्तर्भावः, किंतूपाधितया, तदापि असत्सद्रूपान्यत्कारणमिति सिद्धम् । न हि दण्डादिनानाम्वरू- पाणि सद्रूपाणि ; श्रुतियुक्तिबाध्यत्वादननुगतत्वात् ; तुल्ययुक्तथा ब्रह्म- णोऽपि सद्रूपम्य त्वया वाच्यत्वेन तत्सम्बन्धादेव तदन्यत्र सदाकार प्रत्ययोपपत्तेश्च । न चैवमित्यादिकारणत्व स्थलंऽधिष्ठानत्वमादाय पूर्वो- क्तदोषस्स्यादिति पराभिमानः । स्वरूपत एवेति । सद्रूपमेवावछिन्ना- नवच्छिन्नरूपेण प्रातीतिकव्यावहारिकाध्यासमात्राधिष्ठानमित्यर्थः । स्वरू पातिरिक्तेति । दण्डादि' कारणस्वरूपातिरिक्तंत्यर्थः । उक्तयुक्तिभि- रबाध्यत्वोपलक्षितरूपस्य सद्रपम्य कारणत्वासम्भवात्तत्सम्बधिन्येव कार णत्वं त्वया वाच्यम्; तथाच सद्रूपान्यदेव कारणं तव सिद्धमिति भावः । द्विष्ठसम्बन्धेति | विषयप्रतियोगिकज्ञानानुयोगिकसम्बन्धंत्यर्थः । • ब्रह्मण्यपि. 2 तन्मात्र. 3 दण्डादिस्वरूपकारण.