पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः 1 यितासम्बन्धेन सर्पादेरेवावच्छेदकत्वसम्भवात् । न च सर्पत्वावच्छिन्न- विषयिता त्वेन सम्बन्धत्वे गौरवम्, विषयितामात्रेण तु सर्पोऽतिप्रसक्तः, सर्पत्वा धन्यरूपेण सर्पविषयकज्ञानेपि ' सत्त्वादिति वाच्यम्; सर्पत्व- विशिष्टं प्रति सर्पत्वावच्छिन्नविषयिताया एव सम्बन्धत्वेन विषयिता- मात्रेण सर्पस्थानतिप्रसक्तत्वात् । न च तथापि सर्पत्वावच्छिन्नत्वमव- च्छेदकतायां कल्प्यम्, कल्प्यजातौ त्वनवच्छिन्नमेवावच्छेदकत्वमिति वाच्यम्; मम सर्पत्वनिष्ठ मवच्छेदकत्वमिव तव जात्यन्तरं कल्प्यमिति लाघवाभावेन तव कल्पनानुदयात्, अवच्छेदकताख्यविषयितासम्बन्धेन सर्पत्वस्यैव कारणताद्यवच्छेदकत्वसम्भवाच्च । विषयितासम्बन्धेन सर्प- स्यापि ज्ञानप्रत्यासन्नत्वात्, सर्पसम्बन्धेन सर्पत्वस्य कारणताद्यवच्छेदक -

28 त्वसम्भवाच || अपि च या ययावृत्तकार्यताशालिधीः सा तदवृत्तेःस्वविषय- सम्बन्धान्यवैलक्षण्यस्याश्रय इति सामान्यतो व्याप्तिर्वाच्या अन्यथा ज्ञानमात्रे विषयसम्बन्धान्यधर्मसिद्धिर्न स्यात् । तथाच स्वरूपतो घट- त्वादिविषयकज्ञाने कथं साध्यसिद्धि ? तन्निष्ठजन्यत्वादौ विषयिता- सम्बन्धेन घटत्वादेरेवावच्छेदकत्वसम्भवात् । न च – तत्तद्धीव्यक्ते- देशकालान्तरे उत्पत्तिवारणाय तत्तद्धीत्वेन तत्तत्कारणव्यक्तिजन्यत्वं वाच्यम्, तत्तद्धीत्वं च न तत्तद्धीस्वरूपम्, स्वरूपतो ज्ञानस्या- वच्छेदकत्वासम्भवाद्धर्मान्तरं चातिप्रसक्तम्, अतो धीनिष्ठाखण्डधर्म- विशेषरूपमिति साध्यसिद्धिरिति वाच्यम्; स्वरूपतस्तत्तद्धीव्यक्तीनामव- च्छेदकत्वे बाधकाभावात, स्वरूपतस्तासां बुद्ध्यविषयत्वेऽपि ज्ञान- त्वाचुपलक्षितरूपेणाबच्छेदकताधीविषयत्वसम्भवात्, कारणता पाहते स्वस्मिन् केवलस्य स्वस्य 'भेदसम्भवेन मन्मतेऽपि तादात्म्यसम्भवाच्च । । असर्पज्ञानेपि. 2 सर्पत्वविषयनिष्ठ. 3 दकत्वेन -ग भेदे-क. ग.