पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभावे बाधक निरूपणम् मानाभावात् । अत एव धर्म्यन्तरसम्बन्धमनपेक्ष्य विलक्षणमित्यु- क्तानुमानं बाधितं द्रष्टव्यम् । व्यभिचारि च, तथाहि - घटसंयोगः, पटसंयोगान जात्या भिद्यते, तदवृत्तिजात्यनधिकरणत्वात् । किंतु घटरूपोपाधिनैवेति धर्म्यन्तरसम्बन्धमपेक्ष्यैव विलक्षणे घटसंयो- गत्वावच्छिको साध्याभाववति उक्तहेतुसत्वाव्यभिचारः, अप्रयो- जकं च । न च – उपलक्षणीभूत चैत्रसम्बन्धेनापि कलमाकुरादे - र्व्यावृत्ततापत्तिः; विपक्षबाधायामिष्टापत्तेः । न हि जातेर्व्याव- र्तकत्वे उपाधिरर्व्यावर्तको भवति । एवं शिलोद्धरणमाषोद्धरण- कृत्योः परस्परं जात्या व्यावृत्तावपि विषयरूपोपाधिनापि व्यावृत्ति - . ख़ 29 6: अतएव " दण्डत्वादिकमेव साध्यतावच्छेदकमि "त्यादिदीधितिटीकायां दण्डादेः स्वरूपत एव प्रतियोगितावच्छेदकत्वं तार्किकैरुक्तम् । यत्र तु कचिद्विषयादेः क्लृप्तस्यावच्छेदकत्वं न सम्भवति, तत्रातिरिक्तवैलक्षण्य- सिद्धावपि नास्माकं क्षतिः, तदेतदाह -- मानाभावादिति ॥ - यतु सादृश्यविशेषोऽनुगतः सर्पज्ञानमात्रेऽस्तीति स एवं व्यावर्तक इति, तत्तुच्छम् ; सर्पादिविषयक ' त्वान्ये सादृश्ये मानाभावात् । यदपि सङ्करप्रसङ्गा'दित्युक्तं उपाधित्व इव जातित्वेऽपि साङ्कर्यादोषत्वा दिति, तदपि न जातेरसङ्कीर्णत्वानियमे "सर्पज्ञानादिनिष्ठ कार्यतादाव वच्छिन्नत्वा नियमस्यापि वक्तुं शक्यत्वेन साध्यसिद्धौ तर्काभावात् ।. व्यावर्तकत्वेन तु न जातिः सिध्यति ; उपाधिनापि तत्सम्भवात् ॥ न जात्या भिद्यत इति । पटसंयोगावृत्तिजातिशून्यः तादृश- जातिग्राहकमानाविषयत्वादित्यर्थः । घटरूपेति । घटसमवेतत्वेत्यर्थः । धर्म्यन्तरसम्बन्धमपेक्ष्येति । यो यदवृत्तिजन्यतावान् स स्वाधि करणसम्बन्घान्यस्य तदवृत्तिधर्मस्याश्रय इति व्याप्तिः पूर्वमुक्तेत्यभिम 1 त्वान्यसा – क. ग. 2 दिययुक्तम्-क. ग. 3 सर्व - क. ग. 4 वच्छिमत्व. t