पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असतः साधकत्वाभावे बाधकनिरूपणम् ● यथा पङ्कजशब्दप्रयोगे पद्मत्वम्, यथा वोद्भिदादिशब्द- प्रयोगे यागत्वावान्तरजातिविशेषः । अत्र हि पद्मत्वयागत्वा- बान्तरधर्मों पङ्कजनिकर्तारी फलोद्भेदनकर्तार च न धर्मान्तर- मुपस्थापयतः, अप्रतीतेः; न वा स्वोपरक्तां बुद्धिं जनयतः; समुदाये शक्तचन्तरानभ्युपगमात् । अथ च कुमुदज्योतिष्टोमा- दिभ्यो व्यावर्तकावित्युपाधी एव । इदं च प्राभाकराणां भाट्टानां शब्दमफ्युक्त'मप्यविरुद्धमिति भावः । यथा पङ्कजशब्देति । उक्तं हि शब्दमणौ – “यथा सर्वनाम देषु बुद्धिस्थत्व सम्बोध्यत्वोच्चार यितृत्वानि प्रयोगोपाधयः; तेन बुद्धिस्थादिकमेव तैर्बोध्यते, न तु बुद्धिस्थत्वादिकं शक्यम् ; तेन रूपेण ज्ञानाभावात्, तथा पद्मत्वमपि प्रयोगोपाधिः" इति । उपस्थापयतः उपस्थापकधीविषयौ । • जनयतः जनकधीविषयो । समुदाये । पङ्कजेति उद्भिदिति वर्ण- समुदाये । शक्तयन्तरेति । अवयवशक्तयन्यशक्तीत्यर्थः । व्यावर्तका- विति । विशेष्यतासम्बन्धेन पङ्कजेत्यवयव शक्ति ज्ञान जन्यशाब्दबोध प्रति तादात्म्येन '५द्मत्वादिना हेतुत्वकल्पनात्, कुमुदादिभ्य उक्तबोध- विषयस्य व्यावर्तकावित्यर्थः । तथाच प्रयोगजन्यबांधेऽनुपरक्तत्वे, तद्वि- षयव्यावर्तकधर्मानुपस्थापकत्वे च सति तादृशबांध विषयव्यावर्तकत्वं प्रयोगोपाधित्वम् । तत्तत्पद्मव्यक्तित्वं तु तादृशबोधविषयसामान्यस्य न व्यावर्तकम्, अन्यतमत्वादिकमपि गुरु, पद्मत्वादेः प्रयोगनियामकत्व- ज्ञाने सत्येव व्यावर्तकत्वेन ज्ञेयं चेति पद्मत्वादिकमेव प्रयोगोपाधित्वेन व्यवह्वियत इति भावः ॥ एतेन – पद्मत्वादिना नावयवशक्तचधीनं ज्ञानं - 'मर्थावरु-ग. & पद्मत्वादिहेतुत्व. 2 तत्वम-ग. ADVAITA. VOL. II १ 3 स्थत्वाद्यशक्यम्.

  • शक्तिः

33 कुमुदादौ 3 -